अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 25
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - अनुष्टुप्
सूक्तम् - शत्रुदमन सूक्त
प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम्। रक्षो॑भ्यो व॒धम॑स्यतम॒शनिं॑ यातु॒मद्भ्यः॑ ॥
स्वर सहित पद पाठप्रति॑ । च॒क्ष्व॒ । वि । च॒क्ष्व॒ । इन्द्र॑: । च॒ । सो॒म॒ । जा॒गृ॒त॒म् । रक्ष॑:ऽभ्य: । व॒धम् । अ॒स्य॒त॒म् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्य॑: ॥४.२५॥ ११
स्वर रहित मन्त्र
प्रति चक्ष्व वि चक्ष्वेन्द्रश्च सोम जागृतम्। रक्षोभ्यो वधमस्यतमशनिं यातुमद्भ्यः ॥
स्वर रहित पद पाठप्रति । चक्ष्व । वि । चक्ष्व । इन्द्र: । च । सोम । जागृतम् । रक्ष:ऽभ्य: । वधम् । अस्यतम् । अशनिम् । यातुमत्ऽभ्य: ॥४.२५॥ ११
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 25
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २५−(प्रति) प्रत्येकम् (चक्ष्व) पश्य (वि) विविधम् (चक्ष्व) (इन्द्रः) हे सूर्यवत्तेजस्विन् राजन् (च) (सोम) हे चन्द्रवच्छान्तिस्वभाव मन्त्रिन् (जागृतम्) अनिद्रौ भवतम् (रक्षोभ्यः) दुष्टेभ्यः (वधम्) मारकमायुधम् (अस्यतम्) प्रक्षिपतम् (अशनिम्) वज्रम् (यातुमद्भ्यः) पीडास्वभावेभ्यः ॥
इस भाष्य को एडिट करें