Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 19
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    प्र व॑र्तय दि॒वोऽश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि। प्रा॒क्तो अ॑पा॒क्तो अ॑ध॒रादु॑द॒क्तो॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ॥

    स्वर सहित पद पाठ

    प्र । व॒र्त॒य॒ । दि॒व: । अश्मा॑नम् । इ॒न्द्र॒ । सोम॑ऽशितम् । म॒घ॒ऽव॒न् । सम् । शि॒शा॒धि॒ । प्रा॒क्त: । अ॒पा॒क्त: । अ॒ध॒रात् । उ॒द॒क्त: । अ॒भि । ज॒हि॒ । र॒क्षस॑: । पर्व॑तेन ॥४.१९॥


    स्वर रहित मन्त्र

    प्र वर्तय दिवोऽश्मानमिन्द्र सोमशितं मघवन्त्सं शिशाधि। प्राक्तो अपाक्तो अधरादुदक्तोभि जहि रक्षसः पर्वतेन ॥

    स्वर रहित पद पाठ

    प्र । वर्तय । दिव: । अश्मानम् । इन्द्र । सोमऽशितम् । मघऽवन् । सम् । शिशाधि । प्राक्त: । अपाक्त: । अधरात् । उदक्त: । अभि । जहि । रक्षस: । पर्वतेन ॥४.१९॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 19

    टिप्पणीः - १९−(प्रवर्तय) प्रेरय (दिवः) आकाशात् (अश्मानम्) अशिशकिभ्यः छन्दसि। उ० ४।१४।७। अशू व्याप्तौ संघाते च-मनिन्। अश्मा मेघः-निघ० १।१०। व्यापनशीलं पाषाणलोहादिपदार्थम्, यद्वा पाषाणवद्दृढायुधम्, (इन्द्र) परमैश्वर्यवन् राजन् (सोमशितम्) ऐश्वर्यवता महाशिल्पिना तीक्ष्णीकृतम् (मघवन्) महाधनिन् (सम्) सम्यक् (शिशाधि) अ० ४।३१।४। श्य। तीक्ष्णीकुरु (प्राक्तः) प्राक्-तसिल्। सम्मुखदेशात् (अपाक्तः) दूरदेशात् (अधरात्) अधः स्थानात् (उदक्तः) उपरिस्थानात् (अभि) सर्वतः (जहि) (रक्षसः) राक्षसान् (पर्वतेन) अ० ४।९।१। शैलेन। महाशस्त्रेणेत्यर्थः ॥

    इस भाष्य को एडिट करें
    Top