अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 12
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
सु॑विज्ञा॒नं चि॑कि॒तुषे॒ जना॑य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते। तस्यो॒र्यत्स॒त्यं य॑त॒रदृजी॑य॒स्तदित्सोमो॑ऽवति॒ हन्त्यास॑त् ॥
स्वर सहित पद पाठसु॒ऽवि॒ज्ञा॒नम् । चि॒कि॒तुषे॑ । जना॑य । सत् । च॒ । अस॑त् । च॒ । वच॑सी॒ इति॑ । प॒स्पृ॒धा॒ते॒ इति॑ । तयो॑: । यत् । स॒त्यम् । य॒त॒रत् । ऋजी॑य: । तत् । इत् । सोम॑: । अ॒व॒ति॒ । हन्ति॑ । अस॑त् ॥४.१२॥
स्वर रहित मन्त्र
सुविज्ञानं चिकितुषे जनाय सच्चासच्च वचसी पस्पृधाते। तस्योर्यत्सत्यं यतरदृजीयस्तदित्सोमोऽवति हन्त्यासत् ॥
स्वर रहित पद पाठसुऽविज्ञानम् । चिकितुषे । जनाय । सत् । च । असत् । च । वचसी इति । पस्पृधाते इति । तयो: । यत् । सत्यम् । यतरत् । ऋजीय: । तत् । इत् । सोम: । अवति । हन्ति । असत् ॥४.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(सुविज्ञानम्) विज्ञातुं सुशकं भवति (चिकितुषे) अ० ४।३०।२। विदुषे (जनाय) मनुष्याय (सत्) सत्यम् (च च) (असत्) असत्यम् (वचसी) वचने (पस्पृधाते) स्पर्ध संघर्षे-लटि शपः श्लुः, छान्दसं रूपम्। स्पर्धेते। परस्परं विरोधयतः (तयोः) सदसतोर्मध्ये (यत्) (सत्यम्) यथार्थम् (यतरत्) यत् किंचित् (ऋजीयः) ऋजु-ईयसुन्। सरलतरम् (तत्) (इत्) एव (सोमः) सर्वप्रेरको राजा (अवति) गृह्णाति (हन्ति) नाशयति (असत्) असत्यम् (हन्त्यासत्) छान्दसो दीर्घः ॥
इस भाष्य को एडिट करें