Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 13
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    न वा उ॒ सोमो॑ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं॑ मिथु॒या धा॒रय॑न्तम्। हन्ति॒ रक्षो॒ हन्त्यास॒द्वद॑न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ॥

    स्वर सहित पद पाठ

    न । वै । ऊं॒ इति॑ । सोम॑: । वृ॒जि॒नम् । हि॒नो॒ति॒ । न । क्ष॒त्रिय॑म् । मि॒थु॒या । धा॒रय॑न्तम् । हन्ति॑ । रक्ष॑: । हन्ति॑ । अस॑त् । वद॑न्तम् । उ॒भौ । इन्द्र॑स्य । प्रऽसि॑तौ । श॒या॒ते॒ इति॑ ॥४.१३॥


    स्वर रहित मन्त्र

    न वा उ सोमो वृजिनं हिनोति न क्षत्रियं मिथुया धारयन्तम्। हन्ति रक्षो हन्त्यासद्वदन्तमुभाविन्द्रस्य प्रसितौ शयाते ॥

    स्वर रहित पद पाठ

    न । वै । ऊं इति । सोम: । वृजिनम् । हिनोति । न । क्षत्रियम् । मिथुया । धारयन्तम् । हन्ति । रक्ष: । हन्ति । असत् । वदन्तम् । उभौ । इन्द्रस्य । प्रऽसितौ । शयाते इति ॥४.१३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 13

    टिप्पणीः - १३−(न) निषेधे (वै) अवधारणे (उ) निश्चये (सोमः) ऐश्वर्यवान् राजा (वृजिनम्) अ० १।१०।३। पापिनम् (हिनोति) वर्धयति (न) (क्षत्रियम्) क्षत्रं बलम् तद्वन्तम्। बलिनम् (मिथुया) अ० ४।२९।७। मिथु-विभक्तेर्याच्-पा० ७।१३९। मिथुं प्रजाहिंसनम् (धारयन्तम्) आचरन्तम् (हन्ति) (रक्षः) राक्षसम् (असत्) अनृतम् (वदन्तम्) कथयन्तम् (उभौ) (इन्द्रस्य) राज्ञः (प्रसितौ) अ० ८।३।—११। शृङ्खलायाम् (शयाते) वर्तेते ॥

    इस भाष्य को एडिट करें
    Top