अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 14
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
यदि॑ वा॒हमनृ॑तदेवो॒ अस्मि॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने। किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥
स्वर सहित पद पाठयदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेव: । अस्मि॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ । किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒द॒: । हृ॒णाी॒षे॒ । द्रो॒घ॒ऽवाच॑: । ते॒ । नि॒:ऽऋ॒थम् । स॒च॒न्ता॒म् ॥४.१४॥
स्वर रहित मन्त्र
यदि वाहमनृतदेवो अस्मि मोघं वा देवाँ अप्यूहे अग्ने। किमस्मभ्यं जातवेदो हृणीषे द्रोघवाचस्ते निरृथं सचन्ताम् ॥
स्वर रहित पद पाठयदि । वा । अहम् । अनृतऽदेव: । अस्मि । मोघम् । वा । देवान् । अपिऽऊहे । अग्ने । किम् । अस्मभ्यम् । जातऽवेद: । हृणाीषे । द्रोघऽवाच: । ते । नि:ऽऋथम् । सचन्ताम् ॥४.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(यदि वा) प्रश्ने (अहम्) सत्यवादी (अनृतदेवः) असत्यव्यवहारी (अस्मि) (मोघम्) व्यर्थम् (वा) अथवा (देवान्) स्तुत्यान् पुरुषान् (अव्यूहे) अपि निन्दायाम्+ऊह वितर्के-लट्। निन्दितान् विचारयामि (किम्) कथम् (अस्मभ्यम्) क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः। पा० १।४।३७। इति चतुर्थी। अस्मान् प्रति (जातवेदः) हे प्रसिद्धज्ञान (हृणीषे) क्रुध्यसि (द्रोघवाचः) अनिष्टवादिनः (ते) तव (निर्ऋथम्) अ० ६।६३।१। क्लेशम् (सचन्ताम्) सेवन्ताम् ॥
इस भाष्य को एडिट करें