अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 6
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वाजिना। यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑ इव जिन्वतम् ॥
स्वर सहित पद पाठइन्द्रा॑सोमा । परि॑ । वा॒म् । भू॒तु॒ । वि॒श्वत॑: । इ॒यम् । म॒ति: । क॒क्ष्या᳡: । अश्वा॑ऽइव । वा॒जिना॑ । याम् । वा॒म् । होत्रा॑म् । प॒रि॒ऽहि॒नोमि॑ । मे॒धया॑ । इ॒मा । ब्रह्मा॑णि । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । जि॒न्व॒त॒म् । ४.६॥
स्वर रहित मन्त्र
इन्द्रासोमा परि वां भूतु विश्वत इयं मतिः कक्ष्याश्वेव वाजिना। यां वां होत्रां परिहिनोमि मेधयेमा ब्रह्माणि नृपती इव जिन्वतम् ॥
स्वर रहित पद पाठइन्द्रासोमा । परि । वाम् । भूतु । विश्वत: । इयम् । मति: । कक्ष्या: । अश्वाऽइव । वाजिना । याम् । वाम् । होत्राम् । परिऽहिनोमि । मेधया । इमा । ब्रह्माणि । नृपती इवेति नृपतीऽइव । जिन्वतम् । ४.६॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 6
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६−(इन्द्रासोमा) म० १। (परि) सर्वथा (वाम्) युवाम् (भूतु) भवतु। व्याप्नोतु (विश्वतः) सर्वतः (इयम्) (मतिः) बुद्धिः (कक्ष्या) कक्षसम्बन्धिनी रज्जुः (अश्वा) सुपां सुलुक्पूर्वसवर्णाच्छे०। पा० ७।१।३९। द्वितीयाया आकारः। अश्वम् (इव) यथा (वाजिना) विभक्तेराकारः। वाजिनम्। बलवन्तम् (याम्) (वाम्) युवाभ्याम् (होत्राम्) विभक्तेराकारः। वाजिनम्। बलवन्तम् (याम्) (वाम्) युवाभ्याम् (होत्राम्) वाणीम्-निघ० १।११। (परिहिनोमि) हि गतिवृद्ध्योः। प्रेरयामि। सम्मुखयामि (मेधया) प्रज्ञया (इमा) इमानि (ब्रह्माणि) वेदज्ञानानि (नृपती) राजानौ (इव) (जिन्वतम्) प्रीणयतम्। तर्पयतम् ॥
इस भाष्य को एडिट करें