Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 11
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    प॒रः सो अ॑स्तु त॒न्वा॒ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः॑। प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो मा॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥

    स्वर सहित पद पाठ

    प॒र: । स: । अ॒स्तु॒ । त॒न्वा᳡ । तना॑ । च॒ । ति॒स्र: । पृ॒थि॒वी: । अ॒ध: । अ॒स्तु॒ । विश्वा॑: । प्रति॑ । शु॒ष्य॒तु॒ । यश॑: । अ॒स्य॒ । दे॒वा॒: । य: । मा॒ । दिवा॑ । दिप्स॑ति । य: । च॒ । नक्त॑म् ॥४.११॥


    स्वर रहित मन्त्र

    परः सो अस्तु तन्वा तना च तिस्रः पृथिवीरधो अस्तु विश्वाः। प्रति शुष्यतु यशो अस्य देवा यो मा दिवा दिप्सति यश्च नक्तम् ॥

    स्वर रहित पद पाठ

    पर: । स: । अस्तु । तन्वा । तना । च । तिस्र: । पृथिवी: । अध: । अस्तु । विश्वा: । प्रति । शुष्यतु । यश: । अस्य । देवा: । य: । मा । दिवा । दिप्सति । य: । च । नक्तम् ॥४.११॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 11

    टिप्पणीः - ११−(परः) परस्तात्। दूरे (सः) शत्रुः (अस्तु) (तन्वा) (तना) म० १०। धनेन (च) (तिस्रः) त्रिप्रकाराः (पृथिवीः) भूमीः। शारीरिकात्मिकसामाजिकव्यवस्थाः (अधः) उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु। द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते। वा० पा० २।३।२। इत्यधसो योगे द्वितीया। अधोऽधः (अस्तु) (विश्वाः) व्याप्ताः सर्वाः (प्रति) प्रातिकूल्ये (शुष्यतु) शुष्कं भवतु (यशः) कीर्त्तिः (अस्य) पापिनः (देवाः) हे विद्वांसः। शूराः (यः) (मा) माम्। धार्मिकम् (दिवा) अहनि (दिप्सति) म० १०। हिंसितुमिच्छाति (यः) (च) (नक्तम्) रात्रौ ॥

    इस भाष्य को एडिट करें
    Top