Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 20
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम्। शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्यः॑ ॥

    स्वर सहित पद पाठ

    ए॒ते । ऊं॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तव: । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सव॑: । अदा॑भ्यम् । शिशी॑ते । श॒क्र: । पिशु॑नेभ्य: । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्य॑: ॥४.२०॥


    स्वर रहित मन्त्र

    एत उ त्ये पतयन्ति श्वयातव इन्द्रं दिप्सन्ति दिप्सवोऽदाभ्यम्। शिशीते शक्रः पिशुनेभ्यो वधं नूनं सृजदशनिं यातुमद्भ्यः ॥

    स्वर रहित पद पाठ

    एते । ऊं इति । त्ये । पतयन्ति । श्वऽयातव: । इन्द्रम् । दिप्सन्ति । दिप्सव: । अदाभ्यम् । शिशीते । शक्र: । पिशुनेभ्य: । वधम् । नूनम् । सृजत् । अशनिम् । यातुमत्ऽभ्य: ॥४.२०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 20

    टिप्पणीः - २०−(एते) स्वदेशवर्तिनः (उ) च (त्ये) ते विदेशिनः (पतयन्ति) उड्डीयन्ते (श्वयातवः) कुक्कुरसमानयातनावन्तः (इन्द्रम्) प्रतापिनं राजानम् (दिप्सन्ति) अ० ४।३६।१। जिघांसन्ति (दिप्सवः) दभि हिंसायाम्-सन्-उ प्रत्ययः। जिघांसवः (अदाभ्यम्) अ० ३।२१।४। अजेयम् (शिशीते) अ० ५।१४।९। श्यति। निशितं करोति (शक्रः) शक्तिमान् राजा (पिशुनेभ्यः) क्षुधिपिशिमिथिभ्यः कित्। उ० ३।५५। पिश अवयवे-उनन्। खलेभ्यः। सूचकेभ्यः (वधम्) मारकमायुधम् (नूनम्) निश्चयेन (सृजत्) उत् क्षिपेत् (अशनिम्) वज्रम् (यातुमद्भ्यः) हिंसावद्भ्यः ॥

    इस भाष्य को एडिट करें
    Top