अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 21
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - जगती
सूक्तम् - शत्रुदमन सूक्त
इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒विवा॑सताम्। अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑तु र॒क्षसः॑ ॥
स्वर सहित पद पाठइन्द्र॑: । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒ऽश॒र: । ह॒वि॒:ऽमथी॑नाम् । अ॒भि । आ॒ऽविवा॑सताम् । अ॒भि । इत् । ऊं॒ इति॑ । श॒क्र: । प॒र॒शु: । यथा॑ । वन॑म् । पात्रा॑ऽइव । भि॒न्दन् । स॒त: । ए॒तु॒ । र॒क्षस॑: ॥४.२१॥
स्वर रहित मन्त्र
इन्द्रो यातूनामभवत्पराशरो हविर्मथीनामभ्याविवासताम्। अभीदु शक्रः परशुर्यथा वनं पात्रेव भिन्दन्त्सत एतु रक्षसः ॥
स्वर रहित पद पाठइन्द्र: । यातूनाम् । अभवत् । पराऽशर: । हवि:ऽमथीनाम् । अभि । आऽविवासताम् । अभि । इत् । ऊं इति । शक्र: । परशु: । यथा । वनम् । पात्राऽइव । भिन्दन् । सत: । एतु । रक्षस: ॥४.२१॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(इन्द्रः) परमैश्वर्यवान् राजा (यातूनाम्) पीडकानाम् (अभवत्) (पराशरः) अ० ६।६५।१। विनाशकः (हविर्मथीनाम्) छन्दसि वनसनरक्षिमथाम्। पा० ३।२।२७। हविः+मन्थ विलोडने-इन्। हविषां ग्राह्यान्नादीनां विलोडकानाम् (अभि) सर्वतः (आविवासताम्) आङ्+वि+वसेर्णि च-शतृ। छन्दस्युभयथा। पा० ३।४।११७। आर्धधातुकत्वाण्णिलोपः। समीपनिवासिनाम् (अभि एतु) अभिगच्छतु (इत्) अवश्यन् (उ) एव (शक्रः) शक्तो राजा (परशुः) अ० ३।१९।४। कुठारः (यथा) (वनम्) वृक्षसमूहम् (पात्रा) मृण्मयानि पात्राणि (इव) यथा (भिन्दन्) विदारयन् (सतः) उपस्थितान् (रक्षसः) राक्षसान् ॥
इस भाष्य को एडिट करें