Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 10
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ अश्वा॑नां॒ गवां॒ यस्त॒नूना॑म्। रि॒पु स्ते॒न स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒ तना॑ च ॥

    स्वर सहित पद पाठ

    य: । न॒: । रस॑म् । दिप्स॑ति । प‍ि॒त्व: । अ॒ग्ने॒ । अश्वा॑नम् । गवा॑म् । य: । त॒नूना॑म् । रि॒पु: । स्ते॒न: । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । स: । ही॒य॒ता॒म् । त॒न्वा᳡ । तना॑ । च॒ ॥४.१०॥


    स्वर रहित मन्त्र

    यो नो रसं दिप्सति पित्वो अग्ने अश्वानां गवां यस्तनूनाम्। रिपु स्तेन स्तेयकृद्दभ्रमेतु नि ष हीयतां तन्वा तना च ॥

    स्वर रहित पद पाठ

    य: । न: । रसम् । दिप्सति । प‍ित्व: । अग्ने । अश्वानम् । गवाम् । य: । तनूनाम् । रिपु: । स्तेन: । स्तेयऽकृत् । दभ्रम् । एतु । नि । स: । हीयताम् । तन्वा । तना । च ॥४.१०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 10

    टिप्पणीः - १०−(यः) (नः) अस्माकम् (रसम्) सारम् (दिप्सति) अ० ४।३६।१। दम्भितुं हिंसितुमिच्छति (पित्वः) अ० ४।६।३। पा रक्षणे−तु, यणादेशः। पितोः। रक्षासाधनस्यान्नादेः (अग्ने) अग्निवत्तेजस्विन् राजन् (अश्वानाम्) (गवाम्) (यः) (तनूनाम्) शरीराणाम् (रिपुः) रपेरिच्चोपधायाः। उ० १।२६। रप व्यक्तायां वाचि-कु, यद्वा रिफ कत्थनयुद्धनिन्दाहिंसादानेषु-कु, फस्य पः। शत्रुः (स्तेनः) चोरः (स्तेयकृत्) मोषकर्ता (दभ्रम्) स्फायितञ्चिवञ्चि०। उ० २।१३। दभि हिंसायाम्-रक्। हिंसाम् (एतु) प्राप्नोतु (नि) निश्चयेन (सः) (हीयताम्) हीनो भवतु (तन्वा) शरीरेण (तना) नन्दिग्रहिपचादिभ्यो०। पा० ३।१।१३४। तनु विस्तारे-अव। सुपां सुलुक्०। पा० ७।१।३९। विभक्तेराकारः। तनेन धनेन-निघ० २।१०। (च) ॥

    इस भाष्य को एडिट करें
    Top