अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 17
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हुस्त॒न्वं गूह॑माना। व॒व्रम॑न॒न्तमव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥
स्वर सहित पद पाठप्र । या । जिगा॑ति । ख॒र्गला॑ऽइव । नक्त॑म् । अप॑ । द्रु॒हु: । त॒न्व᳡म् । गूह॑माना । व॒व्रम् । अ॒न॒न्तम् । अव॑ । सा । प॒दी॒ष्ट॒ । ग्रावा॑ण: । घ्न॒न्तु॒ । र॒क्षस॑: । उ॒प॒ब्दै: ॥४.१७॥
स्वर रहित मन्त्र
प्र या जिगाति खर्गलेव नक्तमप द्रुहुस्तन्वं गूहमाना। वव्रमनन्तमव सा पदीष्ट ग्रावाणो घ्नन्तु रक्षस उपब्दैः ॥
स्वर रहित पद पाठप्र । या । जिगाति । खर्गलाऽइव । नक्तम् । अप । द्रुहु: । तन्वम् । गूहमाना । वव्रम् । अनन्तम् । अव । सा । पदीष्ट । ग्रावाण: । घ्नन्तु । रक्षस: । उपब्दै: ॥४.१७॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(प्र) प्रकर्षे। बहिर्भावे (या) (जिगाति) गाङ् गतौ। परस्मैपदत्वं जुहोत्यादित्वं च छान्दसम्, जिगाति गतिकर्मा-निघ० २।१४। गच्छति (खर्गला) खङ्ग+ला आदाने-क, डस्य रः। खङ्गं गृह्णाना। यद्वा पुंसि संज्ञायां घः प्रायेण। पा० ३।३।११८। खर्ज पूजने व्यथने च-घ प्रत्ययः। चजोः कुः घिण्ण्यतोः। पा० ७।३।५२। इति कुत्वम्+ला दाने-क। व्यथादात्री। उलूक्यादिः (इव) यथा (नक्तम्) रात्रौ (अपगूहमाना) संवृण्वती। अप्रकाशयन्ती (द्रुहुः) म० ७। द्रोग्ध्री (तन्वम्) शरीरम्। स्वरूपम्। (वव्रम्) म० ३। कूपम् (अनन्तम्) अवधिकम् (अव) अवेत्य। अधोमुखी भूत्वा (सा) दुष्टा (पदीष्ट) म० १६। गम्यात् (ग्रावाणः) अ० ३।१०।५। गॄ विज्ञाने-क्वनिप्। सूक्ष्मदर्शिनः (घ्नन्तु) मारयन्तु (रक्षसः) राक्षसान् (उपब्दैः) अ० २।२४।६। वाग्भिः-निघ० १।११ ॥
इस भाष्य को एडिट करें