Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 18
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - जगती सूक्तम् - शत्रुदमन सूक्त

    वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि॒च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन्। वयो॒ ये भू॒त्वा प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥

    स्वर सहित पद पाठ

    वि । ति॒ष्ठ॒ध्व॒म् । म॒रु॒त॒: । वि॒क्षु । इ॒च्छत॑ । गृ॒भा॒यत॑ । र॒क्षस॑: । सम् । पि॒न॒ष्ट॒न॒ । वय॑: । ये ।भू॒त्वा । प॒तय॑न्ति । न॒क्तऽभि॑: । ये । वा॒ । रिप॑: । द॒धि॒रे ।दे॒वे । अ॒ध्व॒रे ॥४.१८॥


    स्वर रहित मन्त्र

    वि तिष्ठध्वं मरुतो विक्ष्विच्छत गृभायत रक्षसः सं पिनष्टन्। वयो ये भूत्वा पतयन्ति नक्तभिर्ये वा रिपो दधिरे देवे अध्वरे ॥

    स्वर रहित पद पाठ

    वि । तिष्ठध्वम् । मरुत: । विक्षु । इच्छत । गृभायत । रक्षस: । सम् । पिनष्टन । वय: । ये ।भूत्वा । पतयन्ति । नक्तऽभि: । ये । वा । रिप: । दधिरे ।देवे । अध्वरे ॥४.१८॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 18

    टिप्पणीः - १८−(वि) विविधम् (तिष्ठध्वम्) तिष्ठत (मरुतः) अ० १।२०।१। शत्रुमारकाः शूराः (विक्षु) मनुष्येषु-निघ० २।३। (इच्छत) अन्विच्छत। अनुसंधत्त (गृभायत) अ० २।३०।४। गृह्णीत (रक्षसः) राक्षसान् (सम्) सम्यक् (पिनष्टन) चूर्णीकुरुत (वयः) वातेर्डिच्च। उ० ४।१३४। वा गतिगन्धनयोः-इण्, स च डित्। पक्षिणो यथा (ये) राक्षसाः (भूत्वा) (पतयन्ति) उड्डीयन्ते (नक्तभिः) रात्रिभिः (ये) (वा) (रिषः) हिंसाः। विघ्नान् (दधिरे) धृतवन्तः (देवे) दिव्यगुणयुक्ते (अध्वरे) अ० १।४।२। हिंसारहितव्यवहारे। यज्ञे-निघ० ३।१७ ॥

    इस भाष्य को एडिट करें
    Top