अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 9
सूक्त - चातनः
देवता - इन्द्रासोमौ, अर्यमा
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुदमन सूक्त
ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभिः॑। अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥
स्वर सहित पद पाठये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवै॑: । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाभि॑: । अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोम॑: । आ । वा॒ । द॒धा॒तु॒ । नि:ऽऋ॑ते: । उ॒पऽस्थे॑ ॥४.९॥
स्वर रहित मन्त्र
ये पाकशंसं विहरन्त एवैर्ये वा भद्रं दूषयन्ति स्वधाभिः। अहये वा तान्प्रददातु सोम आ वा दधातु निरृतेरुपस्थे ॥
स्वर रहित पद पाठये । पाकऽशंसम् । विऽहरन्ते । एवै: । ये । वा । भद्रम् । दूषयन्ति । स्वधाभि: । अहये । वा । तान् । प्रऽददातु । सोम: । आ । वा । दधातु । नि:ऽऋते: । उपऽस्थे ॥४.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−ऐश्वर्यवान् प्रेरको वा राजा (आ) समन्तात् (दधातु) स्थापयतु (निर्ऋतेः) अ० २।१०।१। कृच्छ्रापत्तेः। अलक्ष्म्याः (उपस्थे) उत्सङ्गे ॥
इस भाष्य को एडिट करें