अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 13
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
याव॑तीः॒ किय॑तीश्चे॒माः पृ॑थि॒व्यामध्योष॑धीः। ता मा॑ सहस्रप॒र्ण्यो मृ॒त्योर्मु॑ञ्च॒न्त्वंह॑सः ॥
स्वर सहित पद पाठयाव॑ती: । किय॑ती: । च॒ । इ॒मा: । पृ॒थि॒व्याम् । अधि॑ । ओष॑धी: । ता: । मा॒ । स॒ह॒स्र॒ऽप॒र्ण्य᳡: । मृ॒त्यो: । मु॒ञ्च॒न्तु॒ । अंह॑स: ॥७.१३॥
स्वर रहित मन्त्र
यावतीः कियतीश्चेमाः पृथिव्यामध्योषधीः। ता मा सहस्रपर्ण्यो मृत्योर्मुञ्चन्त्वंहसः ॥
स्वर रहित पद पाठयावती: । कियती: । च । इमा: । पृथिव्याम् । अधि । ओषधी: । ता: । मा । सहस्रऽपर्ण्य: । मृत्यो: । मुञ्चन्तु । अंहस: ॥७.१३॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(यावतीः) यत्परिमाणयुक्ताः (कियतीः) बहुगुणोपेता इत्यर्थः (इमाः) (पृथिव्याम्) भूमौ (अधि) उपरि (ओषधीः) (ताः) (मा) माम् (सहस्रपर्ण्यः) धापॄवस्य०। उ० ३।६। पॄ पालनपूरणयोः-न प्रत्ययः। बहुपालनोपेताः (मृत्योः) मरणात्। आलस्यात् (मुञ्चन्तु) मोचयन्तु (अंहसः) आहननात् कष्टात् ॥
इस भाष्य को एडिट करें