अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 12
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पञ्चपदा विराडतिशक्वरी
सूक्तम् - ओषधि समूह सूक्त
मधु॑म॒न्मूलं॒ मधु॑म॒दग्र॑मासां॒ मधु॑म॒न्मध्यं॑ वी॒रुधां॑ बभूव। मधु॑मत्प॒र्णं मधु॑म॒त्पुष्प॑मासां॒ मधोः॒ सम्भ॑क्ता अ॒मृत॑स्य भ॒क्षो घृ॒तमन्नं॑ दुह्रतां॒ गोपु॑रोगवम् ॥
स्वर सहित पद पाठमधु॑ऽमत् । मूल॑म् । मधु॑ऽमत् । अग्र॑म् । आ॒सा॒म् । मधु॑ऽमत् । मध्य॑म् । वी॒रुधा॑म् । ब॒भू॒व॒ । मधु॑ऽमत् । प॒र्णम् । मधु॑ऽमत् । पुष्प॑म् । आ॒सा॒म् । मधो॑: । सम्ऽभ॑क्ता: । अ॒मृत॑स्य । भ॒क्ष: । घृ॒तम् । अन्न॑म् । दु॒ह॒ता॒म् । गोऽपु॑रोगवम् ॥७.१२॥
स्वर रहित मन्त्र
मधुमन्मूलं मधुमदग्रमासां मधुमन्मध्यं वीरुधां बभूव। मधुमत्पर्णं मधुमत्पुष्पमासां मधोः सम्भक्ता अमृतस्य भक्षो घृतमन्नं दुह्रतां गोपुरोगवम् ॥
स्वर रहित पद पाठमधुऽमत् । मूलम् । मधुऽमत् । अग्रम् । आसाम् । मधुऽमत् । मध्यम् । वीरुधाम् । बभूव । मधुऽमत् । पर्णम् । मधुऽमत् । पुष्पम् । आसाम् । मधो: । सम्ऽभक्ता: । अमृतस्य । भक्ष: । घृतम् । अन्नम् । दुहताम् । गोऽपुरोगवम् ॥७.१२॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(मधुमत्) माधुर्योपेतम् (मूलम्) (अग्रम्) उपरिभागः (पर्णम्) पत्रम् (पुष्पम्) पुष्प विकाशे-अच्। कुसुमः (मधोः) मधुनः। माधुर्य्यस्य (संभक्ताः) भज सेवायाम्-क्त। सम्यक् तत्पराः (अमृतस्य) अमरणस्य (भक्षः) भक्ष अदने-घञ्। भोजनम् (घृतम्) आज्यम् (अन्नम्) (दुह्रताम्) अ० ७।८२।६। प्रपूरयन्तु (गोपुरोगवम्) गमेर्डोः। उ० २।६७। गम्लृ गतौ-डो। गच्छतीति गौः। गोरतद्धितलुकि। पा० ५।४।९२। पुरोगो−टच्। पुरोगच्छतीति पुरोगवः। गावो धेनवः पुरोगव्यः प्रधाता यस्य तत्। अन्यत् स्पष्टम् ॥
इस भाष्य को एडिट करें