अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 15
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
सिंह॑स्येव स्त॒नथोः॒ सं वि॑जन्ते॒ऽग्नेरि॑व विजन्ते॒ आभृ॑ताभ्यः। गवां॒ यक्ष्मः॒ पुरु॑षाणां वी॒रुद्भि॒रति॑नुत्तो ना॒व्या एतु स्रो॒त्याः ॥
स्वर सहित पद पाठसिं॒हस्य॑ऽइव । स्त॒नयो॑: । सम् । वि॒ज॒न्ते॒ । अ॒ग्ने:ऽइ॑व । वि॒ज॒न्ते॒ । आऽभृ॑ताभ्य: । गवा॑म् । यक्ष्म॑: । पुरु॑षाणाम् । वी॒रत्ऽभि॑: । अति॑ऽनुत्त: । ना॒व्या᳡: । ए॒तु॒ । स्रो॒त्या: ॥७.१५॥
स्वर रहित मन्त्र
सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः। गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥
स्वर रहित पद पाठसिंहस्यऽइव । स्तनयो: । सम् । विजन्ते । अग्ने:ऽइव । विजन्ते । आऽभृताभ्य: । गवाम् । यक्ष्म: । पुरुषाणाम् । वीरत्ऽभि: । अतिऽनुत्त: । नाव्या: । एतु । स्रोत्या: ॥७.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(सिंहस्य) अ० ४।८।७। हिंस्रजन्तुविशेषस्य (इव) यथा (स्तनथोः) अ० ५।३१।६। गर्जनात् (सम् विजन्ते) अ० ५।२१।६। भयेन चलन्ति प्राणिन इति शेषः (अग्नेः) पावकात् (इव) (विजन्ते) बिभ्यति रोगा इति शेषः (आभृताभ्यः) समन्तात् पोषिताभ्यो वीरुद्भ्यः (गवाम्) धेनूनाम् (यक्ष्मः) राजरोगः (वीरुद्भिः) ओषधीभिः (अतिनुत्तः) णुद प्रेरणे-क्त। अतीत्य प्रेरितः (नाव्याः) अ० ८।५।९। नावा पार्याः (एतु) गच्छतु (स्रोत्याः) अ० १।१३२।३। नदीः ॥
इस भाष्य को एडिट करें