अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 9
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - द्विपदार्ची भुरिगनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
अ॒वको॑ल्बा उ॒दका॑त्मान॒ ओष॑धयः। व्यृषन्तु दुरि॒तं ती॑क्ष्णशृ॒ङ्ग्यः ॥
स्वर सहित पद पाठअ॒वका॑ऽउल्बा: । उ॒दक॑ऽआत्मान: । ओष॑धय: । वि । ऋ॒ष॒न्तु॒ । दु॒:ऽइ॒तम् । ती॒क्ष्ण॒ऽशृ॒ङ्ग्य᳡: ॥७.९॥
स्वर रहित मन्त्र
अवकोल्बा उदकात्मान ओषधयः। व्यृषन्तु दुरितं तीक्ष्णशृङ्ग्यः ॥
स्वर रहित पद पाठअवकाऽउल्बा: । उदकऽआत्मान: । ओषधय: । वि । ऋषन्तु । दु:ऽइतम् । तीक्ष्णऽशृङ्ग्य: ॥७.९॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(अवकोल्बाः) अवका-उल्बाः कृञादिभ्यः०। उ० ५।३५। अव हिंसायाम्−वुन्, टाप्। उल्वादयश्च। उ० ४।९५। उल दाहे, सौ० धा०-वन्, वस्य बः। हिंसादाहिकाः (उदकात्मानः) जलप्रधानाः (ओषधयः) (वि) बहिर्भावे (ऋषन्तु) ऋषी गतौ, अन्तर्गतण्यर्थः। गमयन्तु (दुरितम्) कष्टम् (तीक्ष्णशृङ्ग्यः) तिजेदीर्घश्च। उ० ३।१८। तिज निशाने−क् स्नः। शृणातेर्ह्रस्वश्च उ० १।१२६। शॄ हिंसायाम्-गन्, नुट् च। षिद्गौरादिभ्यश्च। पा० ४।१।४१। ङीप्। रोगस्य तीक्ष्णकर्तनाः ॥
इस भाष्य को एडिट करें