अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पुरउष्णिक्
सूक्तम् - ओषधि समूह सूक्त
आपो॒ अग्रं॑ दि॒व्या ओष॑धयः। तास्ते॒ यक्ष्म॑मेन॒स्यमङ्गा॑दङ्गादनीनशन् ॥
स्वर सहित पद पाठआप॑: । अग्र॑म् । दि॒व्या: । ओष॑धय: । ता: । ते॒ । यक्ष्म॑म् । ए॒न॒स्य᳡म् । अङ्गा॑त्ऽअङ्गात् । अ॒नी॒न॒श॒न् ॥७.३॥
स्वर रहित मन्त्र
आपो अग्रं दिव्या ओषधयः। तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥
स्वर रहित पद पाठआप: । अग्रम् । दिव्या: । ओषधय: । ता: । ते । यक्ष्मम् । एनस्यम् । अङ्गात्ऽअङ्गात् । अनीनशन् ॥७.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(आपः) जलानि (अग्रम्) सृष्ट्यादौ (दिव्याः) उत्तमगुणाः (ओषधयः) अन्नादयः (ताः) (ते) तव (यक्ष्मम्) राजरोगम् (एनस्यम्) तत्र जातः। पा० ४।३।२५। य प्रत्ययः। पापोद्भवम् (अङ्गादङ्गात्) सर्वावयवात् (अनीनशन्) अ० १।२४।२। नाशितवत्यः ॥
इस भाष्य को एडिट करें