अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 4
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पञ्चपदा परानुष्टुबतिजगती
सूक्तम् - ओषधि समूह सूक्त
प्र॑स्तृण॒ती स्त॒म्बिनी॒रेक॑शुङ्गाः प्रतन्व॒तीरोष॑धी॒रा व॑दामि। अं॑शु॒मतीः॑ का॒ण्डिनी॒र्या विशा॑खा॒ ह्वया॑मि ते वी॒रुधो॑ वैश्वदे॒वीरु॒ग्राः पु॑रुष॒जीव॑नीः ॥
स्वर सहित पद पाठप्र॒ऽस्तृ॒ण॒ती: । स्त॒म्बिनी॑: । एक॑ऽशुङ्गा: । प्र॒ऽत॒न्व॒ती: । ओष॑धी: । आ । व॒दा॒मि॒ । अं॒शु॒ऽमती॑: । का॒ण्डिनी॑: । या: । विऽशा॑खा: । ह्वया॑मि । ते॒ । वी॒रुध॑: । वै॒श्व॒ऽदे॒वी: । उ॒ग्रा: । पु॒रु॒ष॒ऽजीव॑नी: ॥७.४॥
स्वर रहित मन्त्र
प्रस्तृणती स्तम्बिनीरेकशुङ्गाः प्रतन्वतीरोषधीरा वदामि। अंशुमतीः काण्डिनीर्या विशाखा ह्वयामि ते वीरुधो वैश्वदेवीरुग्राः पुरुषजीवनीः ॥
स्वर रहित पद पाठप्रऽस्तृणती: । स्तम्बिनी: । एकऽशुङ्गा: । प्रऽतन्वती: । ओषधी: । आ । वदामि । अंशुऽमती: । काण्डिनी: । या: । विऽशाखा: । ह्वयामि । ते । वीरुध: । वैश्वऽदेवी: । उग्रा: । पुरुषऽजीवनी: ॥७.४॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(प्रस्तृणतीः) स्तॄञ् आच्छादने-शतृ। ङीप्। बह्वाच्छादयतीः। बहुपत्रवती (स्तम्बिनीः) स्थः स्तोऽम्बजवकौ। उ० ४।९६। तिष्ठतेः-अम्बच्, स्तादेशः, स्तम्ब-इनि। बहुगुच्छयुक्ताः (एकशुङ्गाः) शम शान्तौ-ग, तस्य नेत्त्वं निपातनादत उत्त्वं च-इति शब्दस्तोममहानिधिः। एकशूकाः। एक−तीक्ष्णाग्रयुक्ताः (प्रतन्वतीः) बहुविस्तारवतीः (ओषधीः) (आ) समन्तात् (वदामि) ह्वयामि (अंशुमतीः) कोमलपल्लवोपेताः (काण्डिनीः) स्कन्धवतीः (याः) (विशाखाः) विविधशाखावतीः (ह्वयामि) (ते) तुभ्यम् (वीरुधः) अ० १।३२।१। विरोहणशीला लतादयः (वैश्वदेवीः) सर्वदिव्यगुणयुक्ताः (उग्राः) प्रचण्डा बलवतीः (पुरुषजीवनीः) मनुष्याणां प्राणाधाराः ॥
इस भाष्य को एडिट करें