Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 28
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - भुरिगनुष्टुप् सूक्तम् - ओषधि समूह सूक्त

    उत्त्वा॑हार्षं॒ पञ्च॑शला॒दथो॒ दश॑शलादु॒त। अथो॒ यम॑स्य॒ पड्वी॑शा॒द्विश्व॑स्माद्देवकिल्बि॒षात् ॥

    स्वर सहित पद पाठ

    उत् । त्वा॒ । अ॒हा॒र्ष॒म् । पञ्च॑ऽशलात् । अथो॒ इति॑ । दश॑ऽशलात् । उ॒त । अथो॒ इति॑ । य॒मस्य॑ । पड्वी॑शात् । विश्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥७.२८॥


    स्वर रहित मन्त्र

    उत्त्वाहार्षं पञ्चशलादथो दशशलादुत। अथो यमस्य पड्वीशाद्विश्वस्माद्देवकिल्बिषात् ॥

    स्वर रहित पद पाठ

    उत् । त्वा । अहार्षम् । पञ्चऽशलात् । अथो इति । दशऽशलात् । उत । अथो इति । यमस्य । पड्वीशात् । विश्वस्मात् । देवऽकिल्बिषात् ॥७.२८॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 28

    टिप्पणीः - २८−(उत्) ऊर्ध्वम् (त्वा) त्वाम् (अहार्षम्) प्रापितवानस्मि (पञ्चशलात्) शल गतौ-अच्। पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम्। वा० पा० २।३।२८। पञ्चसु भूतेषु व्यापकं परमेश्वरमाश्रित्य (अथो) इदानीम् (दशशलात्) पूर्ववत् पञ्चमी। दशदिक्षु व्यापकं परमेश्वरमाश्रित्य (उत) अपि च। अन्यत्पूर्ववत्-अ० ६।९६।२। तथा ७।११२।२ ॥

    इस भाष्य को एडिट करें
    Top