अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 21
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
उज्जि॑हीध्वे स्त॒नय॑त्यभि॒क्रन्द॑त्योषधीः। य॒दा वः॑ पृश्निमातरः प॒र्जन्यो॒ रेत॒साव॑ति ॥
स्वर सहित पद पाठउत् । जि॒ही॒ध्वे॒ । स्त॒नय॑ति । अ॒भि॒ऽक्रन्द॑ति । ओ॒ष॒धी॒: । य॒दा । व॒: । पृ॒श्नि॒ऽमा॒त॒र॒: । प॒र्जन्य॑: । रेत॑सा । अव॑ति ॥७.२१॥
स्वर रहित मन्त्र
उज्जिहीध्वे स्तनयत्यभिक्रन्दत्योषधीः। यदा वः पृश्निमातरः पर्जन्यो रेतसावति ॥
स्वर रहित पद पाठउत् । जिहीध्वे । स्तनयति । अभिऽक्रन्दति । ओषधी: । यदा । व: । पृश्निऽमातर: । पर्जन्य: । रेतसा । अवति ॥७.२१॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 21
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २१−(उज्जिहीध्वे) ओहाङ् गतौ-लट्। उद्गच्छथ (स्तनयति) गर्जति (अभिक्रन्दति) अभितो ध्वनति (ओषधीः) हे ओषधयः (यदा) (वः) युष्मान् (पृश्निमातरः) अ० ४।२७।२। घृणिपृश्निपार्ष्णि०। उ० ४।५२। स्पृश संस्पर्शे-नि, धातोः सलोपः। पृश्निरादित्यो भवति-प्राश्नुत एनं वर्ण इति नैरुक्ताः, संस्प्रष्टा रसान्, संस्प्रष्टा भासं ज्योतिषां, संस्पृष्टो भासेति वा-निरु० २।१४। पृश्निः पृथिवी इति रामजसनकोशः। पृथिवी माता उत्पादयित्री यासां तास्तत्सम्बुद्धौ (पर्जन्यः) अ० १।२।१। मेघः (रेतसा) अ० २।२८।५। उदकेन-निघ० १।१२। (अवति) तर्पयति ॥
इस भाष्य को एडिट करें