अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 11
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
अपक्री॒ताः सही॑यसीर्वी॒रुधो॒ या अ॒भिष्टु॑ताः। त्राय॑न्ताम॒स्मिन्ग्रामे॒ गामश्वं॒ पुरु॑षं प॒शुम् ॥
स्वर सहित पद पाठअ॒प॒ऽक्री॒ता: । सही॑यसी: । वी॒रुध॑: । या: । अ॒भिऽस्तु॑ता: । त्राय॑न्ताम् । अ॒स्मिन् । ग्रामे॑ । गाम् । अश्व॑म् । पुरु॑षम् । प॒शुम् ॥७.११॥
स्वर रहित मन्त्र
अपक्रीताः सहीयसीर्वीरुधो या अभिष्टुताः। त्रायन्तामस्मिन्ग्रामे गामश्वं पुरुषं पशुम् ॥
स्वर रहित पद पाठअपऽक्रीता: । सहीयसी: । वीरुध: । या: । अभिऽस्तुता: । त्रायन्ताम् । अस्मिन् । ग्रामे । गाम् । अश्वम् । पुरुषम् । पशुम् ॥७.११॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(अपक्रीताः) यथाविधि मूल्येन प्राप्ताः (सहीयसीः) सोढृ-ईयसुन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। तृचो लोपः बलवत्तराः (वीरुधः) ओषधयः (याः) (अभिष्टुताः) सर्वतः प्रशंसिताः (त्रायन्ताम्) पालयन्तु (अस्मिन्) (ग्रामे) अ० ४।७।५। गृहसमूहे (गाम्) (अश्वम्) (पुरुषम्) (पशुम्) महिष्यजादिकम् ॥
इस भाष्य को एडिट करें