अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 14
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - उपरिष्टान्निचृद्बृहती
सूक्तम् - ओषधि समूह सूक्त
वैया॑घ्रो म॒णिर्वी॒रुधां॒ त्राय॑माणोऽभिशस्ति॒पाः। अमी॑वाः॒ सर्वा॒ रक्षां॒स्यप॑ ह॒न्त्वधि॑ दू॒रम॒स्मत् ॥
स्वर सहित पद पाठवैया॑घ्र: । म॒णि: । वी॒रुधा॑म् । त्राय॑माण: । अ॒भि॒श॒स्ति॒ऽपा: । अमी॑वा: । सर्वा॑ । रक्षां॑सि । अ॑प । ह॒न्तु॒ । अधि॑ । दू॒रम् । अ॒स्मत् ॥७.१४॥
स्वर रहित मन्त्र
वैयाघ्रो मणिर्वीरुधां त्रायमाणोऽभिशस्तिपाः। अमीवाः सर्वा रक्षांस्यप हन्त्वधि दूरमस्मत् ॥
स्वर रहित पद पाठवैयाघ्र: । मणि: । वीरुधाम् । त्रायमाण: । अभिशस्तिऽपा: । अमीवा: । सर्वा । रक्षांसि । अप । हन्तु । अधि । दूरम् । अस्मत् ॥७.१४॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(वैयाघ्रः) व्याघ्र-अण्। व्याघ्रसम्बन्धी। महाबली (मणिः) प्रशस्तगुणः (वीरुधाम्) ओषधीनाम् (त्रायमाणः) पालयन् (अभिशस्तिपाः) अ० २।१३।३। पीडायाः सकाशाद् रक्षकः (अमीवाः) अ० ७।४२।१। रोगान् (सर्वा) शेर्लुक्। सर्वाणि (रक्षांसि) राक्षसान्। विघ्नान् (अप हन्तु) विनाशयतु (अधि) अधिकम् (दूरम्) (अस्मत्) अस्माकं सकाशात् ॥
इस भाष्य को एडिट करें