Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 10
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - पथ्यापङ्क्तिः सूक्तम् - ओषधि समूह सूक्त

    उ॑न्मु॒ञ्चन्ती॑र्विवरु॒णा उ॒ग्रा या वि॑ष॒दूष॑णीः। अथो॑ बलास॒नाश॑नीः कृत्या॒दूष॑णीश्च॒ यास्ता इ॒हा य॒न्त्वोष॑धीः ॥

    स्वर सहित पद पाठ

    उ॒त्ऽमु॒ञ्चन्ती॑: । वि॒ऽव॒रु॒णा: । उ॒ग्रा: । या: । वि॒ष॒ऽदूष॑णी: । अथो॒ इति॑ । ब॒ला॒स॒ऽनाश॑नी: । कृ॒त्या॒ऽदूष॑णी: । च॒ । या: । ता: । इ॒ह । आ । य॒न्तु॒ । ओष॑धी: ॥७.१०॥


    स्वर रहित मन्त्र

    उन्मुञ्चन्तीर्विवरुणा उग्रा या विषदूषणीः। अथो बलासनाशनीः कृत्यादूषणीश्च यास्ता इहा यन्त्वोषधीः ॥

    स्वर रहित पद पाठ

    उत्ऽमुञ्चन्ती: । विऽवरुणा: । उग्रा: । या: । विषऽदूषणी: । अथो इति । बलासऽनाशनी: । कृत्याऽदूषणी: । च । या: । ता: । इह । आ । यन्तु । ओषधी: ॥७.१०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 10

    टिप्पणीः - १०−(उन्मुञ्चन्तीः) रोगात् मोचयित्र्यः (विवरुणाः) विशेषेण वरणीयाः स्वीकरणीयाः (उग्राः) प्रबलाः (याः) ओषधयः (विषदूषणीः) अ० ६।१००।१। विषनिवारयित्र्यः (अथो) अपि च (बलासनाशनीः) बलासो बलस्य असिता-अ० ४।९।८। श्लेष्मादिरोगनाशयित्र्यः (कृत्यादूषणीः) कृत्या हिंसाक्रिया-अ० ४।९।५। पीडाखण्डयित्र्यः (च) (याः) (ताः) (इह) (आयन्तु) आगच्छन्तु (ओषधीः) तापनाशकाः पदार्थाः ॥

    इस भाष्य को एडिट करें
    Top