अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 8
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
अ॒ग्नेर्घा॒सो अ॒पां गर्भो॒ या रोह॑न्ति॒ पुन॑र्णवाः। ध्रु॒वाः स॒हस्र॑ना॒म्नीर्भे॑ष॒जीः स॒न्त्वाभृ॑ताः ॥
स्वर सहित पद पाठअ॒ग्ने: । घा॒स: । अ॒पाम्। गर्भ॑: । या: । रोह॑न्ति । पुन॑:ऽनवा: । ध्रु॒वा: । स॒हस्र॑ऽनाम्नी: । भे॒ष॒जी: । स॒न्तु॒ । आऽभृ॑ता: ॥७.८॥
स्वर रहित मन्त्र
अग्नेर्घासो अपां गर्भो या रोहन्ति पुनर्णवाः। ध्रुवाः सहस्रनाम्नीर्भेषजीः सन्त्वाभृताः ॥
स्वर रहित पद पाठअग्ने: । घास: । अपाम्। गर्भ: । या: । रोहन्ति । पुन:ऽनवा: । ध्रुवा: । सहस्रऽनाम्नी: । भेषजी: । सन्तु । आऽभृता: ॥७.८॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(अग्नेः) तापस्य। शरीरबलस्य (घासः) अ० ४।३८।७। भोजनम् (अपाम्) जलानाम् (गर्भः) आधारः (याः) ओषधयः (रोहन्ति) उद्भवन्ति (पुनर्णवाः) वारंवारं नवीनोत्पन्नाः (ध्रुवाः) दृढगुणाः (सहस्रनाम्नीः) बहुनामवत्यः (भेषजीः) भयजेत्र्यः। ओषधयः (सन्तु) (आभृताः) यथावत्पोषिताः ॥
इस भाष्य को एडिट करें