अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 23
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
व॑रा॒हो वे॑द वी॒रुधं॑ नकु॒लो वे॑द भेष॒जीम्। स॒र्पा ग॑न्ध॒र्वा या वि॒दुस्ता अ॒स्मा अव॑से हुवे ॥
स्वर सहित पद पाठव॒रा॒ह: । वे॒द॒ । वी॒रुध॑म्। न॒कु॒ल: । वे॒द॒ । भे॒ष॒जीम् । स॒र्पा: । ग॒न्ध॒र्वा: । या: । वि॒दु: । ता: । अ॒स्मै । अव॑से । हु॒वे॒ ॥७.२३॥
स्वर रहित मन्त्र
वराहो वेद वीरुधं नकुलो वेद भेषजीम्। सर्पा गन्धर्वा या विदुस्ता अस्मा अवसे हुवे ॥
स्वर रहित पद पाठवराह: । वेद । वीरुधम्। नकुल: । वेद । भेषजीम् । सर्पा: । गन्धर्वा: । या: । विदु: । ता: । अस्मै । अवसे । हुवे ॥७.२३॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(वराहः) अन्येष्वपि दृश्यते। पा० ३।२।१०१। वर+आङ्+हन् वा हृञ् हरणे-ड। वराय अभीष्टाय मुस्तादिलाभाय आहन्ति खनति भूमिम्, वा वरान्, आहरतीति। वराहो मेघो भवति वराहारः,... अयमपीतरो वराह एतस्मादेव, बृहति मूलानि, वरंवरं मूलं बृहतीति वा.... अङ्गिरसोऽपि वराहा उच्यन्ते-निरु० ५।४। शूकरः (वेद) जानाति (वीरुधम्) ओषधिम् (नकुलः) अ० ६।१३९।५। जन्तुविशेषः (भेषजीम्) भयनिवारिकां चिकित्साम् (सर्पाः) (गन्धर्वाः) अ० ८।६।१९। दुःखदायिनश्च ते पीडकाश्च ते (याः) ओषधीः (विदुः) जानन्ति (ताः) (अस्मै) पुरुषाय (अवसे) रक्षणाय (हुवे) आह्वयामि ॥
इस भाष्य को एडिट करें