अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 22
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि। अथो॑ कृणोमि भेष॒जं यथास॑च्छ॒तहा॑यनः ॥
स्वर सहित पद पाठतस्य॑ । अ॒मृत॑स्य । इ॒मम्। बल॑म् । पुरु॑षम् । पा॒य॒या॒म॒सि॒ । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् । यथा॑ । अस॑त् । श॒तऽहा॑यन: ॥७.२२॥
स्वर रहित मन्त्र
तस्यामृतस्येमं बलं पुरुषं पाययामसि। अथो कृणोमि भेषजं यथासच्छतहायनः ॥
स्वर रहित पद पाठतस्य । अमृतस्य । इमम्। बलम् । पुरुषम् । पाययामसि । अथो इति । कृणोमि । भेषजम् । यथा । असत् । शतऽहायन: ॥७.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(तस्य) पूर्वोक्तस्य (अमृतस्य) अमरणस्य। पुष्टिकरस्य पर्जन्यस्य (इमम्) (बलम्) सारम् (पुरुषम्) प्राणिनम् (पाययामसि) पानेन पोषयामः (अथो) अपि च (कृणोमि) करोमि (भेषजम्) चिकित्साम् (यथा) येन प्रकारेण (असत्) भवेत् (शतहायनः) अ० ८।२।८। शतसंवत्सरायुर्युक्तः ॥
इस भाष्य को एडिट करें