अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 24
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
याः सु॑प॒र्णा आ॑ङ्गिर॒सीर्दि॒व्या या र॒घटो॑ वि॒दुः। वयां॑सि हं॒सा या वि॒दुर्याश्च॒ सर्वे॑ पत॒त्त्रिणः॑। मृ॒गा या वि॒दुरोष॑धी॒स्ता अ॒स्मा अव॑से हुवे ॥
स्वर सहित पद पाठया: । सु॒ऽप॒र्णा: । आ॒ङ्गि॒र॒सी: । दि॒व्या: । या: । र॒घट॑: । वि॒दु: । वयां॑सि । हं॒सा: । या: । वि॒दु: । या: । च॒ । सर्वे॑ । प॒त॒त्रिण॑: । मृ॒गा: । या: । वि॒दु: । ओष॑धी: । ता: । अ॒स्मै । अव॑से । हु॒वे॒ ॥७.२४॥
स्वर रहित मन्त्र
याः सुपर्णा आङ्गिरसीर्दिव्या या रघटो विदुः। वयांसि हंसा या विदुर्याश्च सर्वे पतत्त्रिणः। मृगा या विदुरोषधीस्ता अस्मा अवसे हुवे ॥
स्वर रहित पद पाठया: । सुऽपर्णा: । आङ्गिरसी: । दिव्या: । या: । रघट: । विदु: । वयांसि । हंसा: । या: । विदु: । या: । च । सर्वे । पतत्रिण: । मृगा: । या: । विदु: । ओषधी: । ता: । अस्मै । अवसे । हुवे ॥७.२४॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(याः) ओषधीः (सुपर्णाः) अ० २।३०।३। सुपतनाः-निरु० ३।१२। गरुडगृध्रादयः (आङ्गिरसीः) म० १७। अङ्गिरोभिः प्रोक्ताः (दिव्याः) श्रेष्ठाः (याः) (रघटः) रघि गतौ-अच्, नुम् लोपः+अट गतौ क्विप्, शकन्ध्वादिरूपम्। रघे गन्तव्ये आकाशे अटनशीलाः (विदुः) जानन्ति (वयांसि) अ० २।३०।३। पक्षिणः (हंसाः) अ० ६।१२।१। पक्षिविशेषाः (पतत्त्रिणः) पक्षयुक्ता जन्तवः (मृगाः) अ० ३।१५।१। अरण्यपशवः। अन्यत्पूर्ववत् ॥
इस भाष्य को एडिट करें