Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 20
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - अनुष्टुप् सूक्तम् - ओषधि समूह सूक्त

    अ॑श्व॒त्थो द॒र्भो वी॒रुधां॒ सोमो॒ राजा॒मृतं॑ ह॒विः। व्री॒हिर्यव॑श्च भेष॒जौ दि॒व॒स्पु॒त्रावम॑र्त्यौ ॥

    स्वर सहित पद पाठ

    अ॒श्व॒त्थ: । द॒र्भ: । वी॒रुधा॑म् । सोम॑: । राजा॑ । अ॒मृत॑म् । ह॒वि: । व्री॒हि: । यव॑: । च॒ । भे॒ष॒जौ । दि॒व: । पु॒त्रौ । अम॑र्त्यौ ॥७.२०॥


    स्वर रहित मन्त्र

    अश्वत्थो दर्भो वीरुधां सोमो राजामृतं हविः। व्रीहिर्यवश्च भेषजौ दिवस्पुत्रावमर्त्यौ ॥

    स्वर रहित पद पाठ

    अश्वत्थ: । दर्भ: । वीरुधाम् । सोम: । राजा । अमृतम् । हवि: । व्रीहि: । यव: । च । भेषजौ । दिव: । पुत्रौ । अमर्त्यौ ॥७.२०॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 20

    टिप्पणीः - २०−(अश्वत्थः) अ० ३।६।१। अश्वा वीरास्तिष्ठन्ति यत्र स अश्वत्थः पिप्पलवृक्षः (दर्भः) अ० ६।४३।१। दुःखविदारकः कुशः काशो वा (वीरुधाम्) ओषधीनाम् (सोमः) सोमलता (राजा) (अमृतम्) सर्वगुणोपेतम् (हविः) ग्राह्यं द्रव्यम् (व्रीहिः) अ० ६।१४०।२। आशुधान्यम् (यवः) धान्यविशेषः (च) (भेषजौ) भयनिवारकौ (दिवः) दिवु क्रीडामदादिषु यद्वा दिव अर्दे-क्विप् डिवि वा। उन्मादस्य। पीडनस्य (पुत्रौ) अ० १।११।५। पुनातीति पुत्रः। शोधकौ (अमर्त्यौ) अमरणधर्माणौ। नित्यबलकरौ ॥

    इस भाष्य को एडिट करें
    Top