Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 1
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    आ न॑यै॒तमा र॑भस्व सु॒कृतां॑ लो॒कमपि॑ गच्छतु प्रजा॒नन्। ती॒र्त्वा तमां॑सि बहु॒धा म॒हान्त्य॒जो नाक॒मा क्र॑मतां तृ॒तीय॑म् ॥

    स्वर सहित पद पाठ

    आ । न॒य॒ । ए॒तम् । आ । र॒भ॒स्व॒ । सु॒ऽकृता॑म् । लो॒कम् । अपि॑ । ग॒च्छ॒तु॒ । प्र॒ऽजा॒नन् । ती॒र्त्वा । तमां॑सि । ब॒हु॒ऽधा । म॒हान्ति॑ । अ॒ज: । नाक॑म् । आ । क्र॒म॒ता॒म् । तृ॒तीय॑म् ॥५.१॥


    स्वर रहित मन्त्र

    आ नयैतमा रभस्व सुकृतां लोकमपि गच्छतु प्रजानन्। तीर्त्वा तमांसि बहुधा महान्त्यजो नाकमा क्रमतां तृतीयम् ॥

    स्वर रहित पद पाठ

    आ । नय । एतम् । आ । रभस्व । सुऽकृताम् । लोकम् । अपि । गच्छतु । प्रऽजानन् । तीर्त्वा । तमांसि । बहुऽधा । महान्ति । अज: । नाकम् । आ । क्रमताम् । तृतीयम् ॥५.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 1

    टिप्पणीः - १−(आ नय) प्रापय (एनम्) अजं जीवात्मानम् (आ) समन्तात् (रभस्व) उत्सुको भव। उत्साहं कुरु (सुकृताम्) सुकर्मिणाम् (लोकम्) दर्शनीयं पदम् (अपि) अवधारणे (गच्छतु) प्राप्नोतु (प्रजानन्) प्रकर्षेण विद्वान् (तीर्त्वा) पारयित्वा (तमांसि) अन्धकारान्। अबोधान् (बहुधा) अनेकप्रकारेण (महान्ति) बृहन्ति (अजः) न जायते यः, नञ्+जन-ड। यद्वा, अज गतिक्षेपणयोः-अच्। अजा अजनाः-निरु० ४।२५। अजन्मा। गतिशीलः। परमेश्वरः। जीवात्मा (नाकम्) अ–० १।९।२। सुखस्वरूपं परमात्मानम् (आ) समन्तात् (क्रमताम्) प्राप्नोतु (तृतीयम्) जीवप्रकृतिभ्यां भिन्नम् ॥

    इस भाष्य को एडिट करें
    Top