Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 17
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - अनुष्टुप् सूक्तम् - अज सूक्त

    येना॑ स॒हस्रं॒ वह॑सि॒ येना॑ग्ने सर्ववेद॒सम्। तेने॒मं य॒ज्ञं नो॑ वह॒ स्वर्दे॒वेषु॒ गन्त॑वे ॥

    स्वर सहित पद पाठ

    येन॑ । स॒हस्र॑म् । वह॑सि । येन॑ । अ॒ग्ने॒ । स॒र्व॒ऽवे॒द॒सम् । तेन॑ । इ॒मम् । य॒ज्ञम् । न॒: । व॒ह॒ । स्व᳡: । दे॒वेषु॑ । गन्त॑वे ॥५.१७॥


    स्वर रहित मन्त्र

    येना सहस्रं वहसि येनाग्ने सर्ववेदसम्। तेनेमं यज्ञं नो वह स्वर्देवेषु गन्तवे ॥

    स्वर रहित पद पाठ

    येन । सहस्रम् । वहसि । येन । अग्ने । सर्वऽवेदसम् । तेन । इमम् । यज्ञम् । न: । वह । स्व: । देवेषु । गन्तवे ॥५.१७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 17

    टिप्पणीः - १७−(येन) प्रयत्नेन (सहस्रम्) सहो बलम्-निघ० २।९। रो मत्वर्थे। बलवन्तं पुरुषम् (वहसि) प्रापयसि (येन) यम-ड। नियमेन (अग्ने) हे विद्वन् (सर्ववेदसम्) सर्वाणि वेदांसि ज्ञानानि धनानि वा यस्मिन् तं यज्ञम् (तेन) (इमम्) क्रियमाणम् (यज्ञम्) संगन्तव्यं व्यवहारं प्रति (नः) अस्मान् (वह) नय (स्वः) सुखम् (देवेषु) विद्वत्सु (गन्तवे) तुमर्थे तवेप्रत्ययः। प्राप्तुम् ॥

    इस भाष्य को एडिट करें
    Top