Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 21
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताभुरिक्त्रिष्टुप् सूक्तम् - अज सूक्त

    स॒त्यं च॒र्तं च॒ चक्षु॑षी॒ विश्वं॑ स॒त्यं श्र॒द्धा प्रा॒णो वि॒राट्शिरः॑। ए॒ष वा अप॑रिमितो य॒ज्ञो यद॒जः पञ्चौ॑दनः ॥

    स्वर सहित पद पाठ

    स॒त्यम् । च॒ । ऋ॒तम् । च॒ । चक्षु॑षी॒ इति॑ । विश्व॑म् । स॒त्यम् । श्र॒ध्दा । प्रा॒ण: । वि॒ऽराट् । शिर॑: । ए॒ष: । वै । अप॑रिऽमित: । य॒ज्ञ: । यत् । अ॒ज: । पञ्च॑ऽओदन: ॥५.२१॥


    स्वर रहित मन्त्र

    सत्यं चर्तं च चक्षुषी विश्वं सत्यं श्रद्धा प्राणो विराट्शिरः। एष वा अपरिमितो यज्ञो यदजः पञ्चौदनः ॥

    स्वर रहित पद पाठ

    सत्यम् । च । ऋतम् । च । चक्षुषी इति । विश्वम् । सत्यम् । श्रध्दा । प्राण: । विऽराट् । शिर: । एष: । वै । अपरिऽमित: । यज्ञ: । यत् । अज: । पञ्चऽओदन: ॥५.२१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 21

    टिप्पणीः - २१−(सत्यम्) अस सत्तायाम्-शतृ। सते हितम्-यत्। यथार्थस्वरूपम्। अस्तित्वम् (च) (ऋतम्) अञ्चिघृसिभ्यः क्तः। उ० ३।८९। ऋ गतौ-क्त। वेदादियथार्थशास्त्रम् (च) (चक्षुषी) नेत्रे (विश्वम्) सर्वम् (सत्यम्) (श्रद्धा) अ० ६।१३३।४। वेदेषु विश्वासः (प्राणः) (विराट्) विविधप्रकाशमाना प्रकृतिः (शिरः) (एषः) (वै) एव (अपरिमितः) परिमाणरहितः (यज्ञः) पूजनीयः (यत्) यस्मात् (अजः) परमेश्वरः (पञ्चौदनः) अ० ४।१४।७। पञ्चसु पृथिव्यादिभूतेषु ओदनः सेचनं यस्य सः ॥

    इस भाष्य को एडिट करें
    Top