Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 7
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    अ॒जो अ॒ग्निर॒जमु॒ ज्योति॑राहुर॒जं जीव॑ता ब्र॒ह्मणे॒ देय॑माहुः। अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥

    स्वर सहित पद पाठ

    अ॒ज: । अ॒ग्नि: । अ॒जम् । ऊं॒ इति॑ । ज्योति॑: । आ॒हु॒: । अ॒जम् । जीव॑ता । ब्र॒ह्मणे॑ । देय॑म् । आ॒हु॒: । अ॒ज: । तमां॑सि । अप॑ । ह॒न्ति॒ । दू॒रम् । अ॒स्मिन् । लो॒के । श्र॒त्ऽदधा॑नेन । द॒त्त: ॥५.७॥


    स्वर रहित मन्त्र

    अजो अग्निरजमु ज्योतिराहुरजं जीवता ब्रह्मणे देयमाहुः। अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥

    स्वर रहित पद पाठ

    अज: । अग्नि: । अजम् । ऊं इति । ज्योति: । आहु: । अजम् । जीवता । ब्रह्मणे । देयम् । आहु: । अज: । तमांसि । अप । हन्ति । दूरम् । अस्मिन् । लोके । श्रत्ऽदधानेन । दत्त: ॥५.७॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 7

    टिप्पणीः - ७−(अजः) म० १। जीवात्मा (अग्निः) शरीरेऽग्निवद् व्यापकः (अजम्) जीवात्मानम् (उ) एव (ज्योतिः) प्रकाशम् (आहुः) कथयन्ति विद्वांसः (अजम्) (जीवता) प्राणं पुरुषार्थं धारयता पुरुषेण (ब्रह्मणे) परमात्मने (देयम्) समर्पणीयम् (अजः) (तमांसि) अविद्यान्धकारान् (अप हन्ति) विनाशयति (दूरम्) विप्रकृष्टदेशम् (अस्मिन्) (लोके) (श्रद्दधानेन) परमेश्वरे विश्वासधारकेण (दत्तः) समर्पितः ॥

    इस भाष्य को एडिट करें
    Top