Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 4
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - जगती सूक्तम् - अज सूक्त

    अनु॑छ्य श्या॒मेन॒ त्वच॑मे॒तां वि॑शस्तर्यथाप॒र्वसिना॒ माभि मं॑स्थाः। माभि द्रु॑हः परु॒शः क॑ल्पयैनं तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यैनम् ॥

    स्वर सहित पद पाठ

    अनु॑ । च्छ्य॒ । श्या॒मेन॑ । त्वच॑म् । ए॒ताम् । वि॒ऽश॒स्त॒: । य॒था॒ऽप॒रु । अ॒सिना॑ । मा । अ॒भि । मं॒स्था॒: । मा । अ॒भि । द्रु॒ह॒: । प॒रु॒ऽश: । क॒ल्प॒य॒ । ए॒न॒म् । तृ॒तीये॑ । नाके॑ । अधि॑ । वि । श्र॒य॒ । ए॒न॒म् ॥५.४॥


    स्वर रहित मन्त्र

    अनुछ्य श्यामेन त्वचमेतां विशस्तर्यथापर्वसिना माभि मंस्थाः। माभि द्रुहः परुशः कल्पयैनं तृतीये नाके अधि वि श्रयैनम् ॥

    स्वर रहित पद पाठ

    अनु । च्छ्य । श्यामेन । त्वचम् । एताम् । विऽशस्त: । यथाऽपरु । असिना । मा । अभि । मंस्था: । मा । अभि । द्रुह: । परुऽश: । कल्पय । एनम् । तृतीये । नाके । अधि । वि । श्रय । एनम् ॥५.४॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 4

    टिप्पणीः - ४−(अनु) निरन्तरम् (छ्य) तनूकुरु (श्यामेन) इषियुधीन्धिदसिश्याधूसूभ्यो मक्। उ० १।१४५। श्यैङ् गतौ-मक्। श्याम श्यायतेः-निरु० ४।३। ज्ञानेन (त्वचम्) त्वच आवरणे-क्विप्। आवरणशीलाम्। अविद्याम् (एताम्) हृदयस्थाम् (विशस्तः) ग्रसितस्कभितस्तभितो०। पा० ७।२।३४। शसु हिंसायाम्−तृच्, इडभावः हे अविद्यानाशक (यथापरु) भृमृशीङ्तॄ०। उ० १।७। पॄ पालनपूरणयोः-उ प्रत्ययः। पूर्णतामनतिक्रम्य (असिना) खनिकष्यज्यसिवसि०। उ० ४।१४०। अस गतौ दीप्तौ च-इ प्रत्ययः। गत्या प्रयत्नेन (मा अभि मंस्थाः) मन ज्ञाने−लुङ्। अभिमानं मा कुरु (मा अभि द्रुहः) अनिष्टं मा चिन्तय (परुशः) पॄ पालनपूरणयोः-उ प्रत्ययः+शम आलोचने-ड प्रत्ययः। परुं पालनं शमयति विचारयति यः (कल्पय) समर्थय (एनम्) जीवात्मानम् (तृतीये) म० १। (नाके) सुखस्वरूपे परमात्मनि (अधि) अधिकृत्य (वि) विस्तारेण (श्रय) स्थापय (एनम्) ॥

    इस भाष्य को एडिट करें
    Top