अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 15
ए॒तास्त्वा॒जोप॑ यन्तु॒ धाराः॑ सो॒म्या दे॒वीर्घृ॒तपृ॑ष्ठा मधु॒श्चुतः॑। स्त॑भान पृ॑थि॒वीमु॒त द्यां नाक॑स्य पृ॒ष्ठेऽधि॑ स॒प्तर॑श्मौ ॥
स्वर सहित पद पाठए॒ता: । त्वा॒ । अ॒ज॒ । उप॑ । य॒न्तु॒ । धारा॑: । सो॒म्या: । दे॒वी: । घृ॒तऽपृ॑ष्ठ: । म॒धु॒ऽश्चुत॑: । स्त॒भा॒न् । पृ॒थि॒वीम् । उ॒त । द्याम् । नाक॑स्य । पृ॒ष्ठे । अधि॑ । स॒प्तऽर॑श्मौ ॥५.१५॥
स्वर रहित मन्त्र
एतास्त्वाजोप यन्तु धाराः सोम्या देवीर्घृतपृष्ठा मधुश्चुतः। स्तभान पृथिवीमुत द्यां नाकस्य पृष्ठेऽधि सप्तरश्मौ ॥
स्वर रहित पद पाठएता: । त्वा । अज । उप । यन्तु । धारा: । सोम्या: । देवी: । घृतऽपृष्ठ: । मधुऽश्चुत: । स्तभान् । पृथिवीम् । उत । द्याम् । नाकस्य । पृष्ठे । अधि । सप्तऽरश्मौ ॥५.१५॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १५−(एताः) (त्वा) त्वाम् (अज) हे जीवात्मन् (उप) आदरेण (यन्तु) प्राप्नुवन्तु (धाराः) धारणशक्तयः (सोम्याः) अ० ३।१४।३। अमृतमय्यः (देवीः) दिव्यगुणयुक्ताः (घृतपृष्ठाः) अ० २।१३।१। प्रकाशेन सेचयित्र्यः (मधुश्चुतः) अ० ७।५६।२। माधुर्य्यस्य क्षरणशीलाः (स्तभान) दृढीकुरु (पृथिवीम्) पृथिवीस्थपदार्थानित्यर्थः। (उत) अपि च (द्याम्) अन्तरिक्षस्थान् पदार्थानित्यर्थः (नाकस्य) सुखस्य (पृष्ठे) आश्रये (अधि) अधिकृत्य (सप्तरश्मौ) सप्यशूभ्यां तुट्च। उ० १।१५७। षप समवाये-कनिन् तुट् च, यद्वा, क्त प्रत्ययः। सप्तः सृप्ता संख्या, सप्तादित्यरश्मयः-निरु० ४।२६। सप्तनामादित्यः सप्तास्मै रश्मयो रसानभिसन्नामयन्ति सप्तैनमृषयः स्तुवन्तीति वा-निरु० ४।२७। व्याप्तकिरणे, यद्वा शुक्लनीलपीतादिवर्णाः सप्तकिरणाः सन्ति यस्मिन् तस्मिन् सूर्यलोके ॥
इस भाष्य को एडिट करें