Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 18
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिपदा विराड्गायत्री सूक्तम् - अज सूक्त

    अ॒जः प॒क्वः स्व॒र्गे लो॒के द॑धाति॒ पञ्चौ॑दनो॒ निरृ॑तिं॒ बाध॑मानः। तेन॑ लो॒कान्त्सूर्य॑वतो जयेम ॥

    स्वर सहित पद पाठ

    अ॒ज: । प॒क्व: । स्व॒:ऽगे । लो॒के । द॒धा॒ति॒ । पञ्च॑ऽओदन: । नि:ऽऋ॑तिम् । बाध॑मान: । तेन॑ । लो॒कान् । सूर्य॑ऽवत: । ज॒ये॒म॒ ॥५.१८॥


    स्वर रहित मन्त्र

    अजः पक्वः स्वर्गे लोके दधाति पञ्चौदनो निरृतिं बाधमानः। तेन लोकान्त्सूर्यवतो जयेम ॥

    स्वर रहित पद पाठ

    अज: । पक्व: । स्व:ऽगे । लोके । दधाति । पञ्चऽओदन: । नि:ऽऋतिम् । बाधमान: । तेन । लोकान् । सूर्यऽवत: । जयेम ॥५.१८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 18

    टिप्पणीः - १८−(अजः) म० १। अजन्मा गतिशीलो वा जीवात्मा (पक्वः) दृढस्वभावः (स्वर्गे) सुखप्रापके (लोके) दर्शनीये स्थाने (दधाति) स्थापयति, जीवमिति शेषः (पञ्चौदनः) म० ८। पृथिव्यादिपञ्चभूतैः सिक्तः (निर्ऋतिम्) अ० २।१—१।२। कृच्छ्रापत्तिम् (बाधमानः) निवारयन् (तेन) उपायेन (लोकान्) (सूर्यवतः) विद्याप्रकाशयुक्तान् (जयेम) उत्कर्षेण प्राप्नुयाम ॥

    इस भाष्य को एडिट करें
    Top