Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 22
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताभुरिक्त्रिष्टुप् सूक्तम् - अज सूक्त

    अप॑रिमितमे॒व य॒ज्ञमा॒प्नोत्यप॑रिमितं लो॒कमव॑ रुन्द्धे। यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

    स्वर सहित पद पाठ

    अप॑रिऽमितम् । ए॒व । य॒ज्ञम् । आ॒प्नोति॑ । अप॑रिऽमितम् । लो॒कम् । अव॑ । रु॒न्ध्दे॒ । य: । अ॒जम् । पञ्च॑ऽओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२२॥


    स्वर रहित मन्त्र

    अपरिमितमेव यज्ञमाप्नोत्यपरिमितं लोकमव रुन्द्धे। योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥

    स्वर रहित पद पाठ

    अपरिऽमितम् । एव । यज्ञम् । आप्नोति । अपरिऽमितम् । लोकम् । अव । रुन्ध्दे । य: । अजम् । पञ्चऽओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 22

    टिप्पणीः - २२−(अपरिमितम्) अनन्तम् (एव) अवश्यम् (यज्ञम्) यष्टव्यम् (आप्नोति) प्राप्नोति (अपरिमितम्) (लोकम्) दर्शनीयं जगदीश्वरम् (अव रुन्द्धे) दक्षतया धारयति (यः) (अजम्) जगदीश्वरम् (पञ्चौदनम्) पञ्चभूतसेचकम् (दक्षिणाज्योतिषम्) दक्षिणा दानं ज्योतिः प्रकाशो यस्य तम् (ददाति) समर्पयति स्वहृदये ॥

    इस भाष्य को एडिट करें
    Top