अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 38
सूक्त - भृगुः
देवता - अजः पञ्चौदनः
छन्दः - एकावसाना द्विपदा साम्नी त्रिष्टुप्
सूक्तम् - अज सूक्त
तास्ते॑ रक्षन्तु॒ तव॒ तुभ्य॑मे॒तं ता॑भ्य॒ आज्यं॑ ह॒विरि॒दं जु॑होमि ॥
स्वर सहित पद पाठता: । ते॒ । र॒क्ष॒न्तु॒ । तव॑ । तुभ्य॑म् । ए॒तम् । ताभ्य॑: । आज्य॑म् । ह॒वि: । इ॒दम् । जु॒हो॒मि॒ ॥५.३८॥
स्वर रहित मन्त्र
तास्ते रक्षन्तु तव तुभ्यमेतं ताभ्य आज्यं हविरिदं जुहोमि ॥
स्वर रहित पद पाठता: । ते । रक्षन्तु । तव । तुभ्यम् । एतम् । ताभ्य: । आज्यम् । हवि: । इदम् । जुहोमि ॥५.३८॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 38
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३८−(ताः) पूर्वोक्ता दिशाः (ते) तुभ्यम् (रक्षन्तु) पान्तु (तव) (तुभ्यम्) वीप्सायां द्विर्वचनम् (एतम्) जीवात्मानम् (ताभ्यः) दिशानां सकाशात् (आज्यम्) अ० ५।८।१। आङ्+अञ्जू व्यक्तीकरणे-क्यप्। व्यक्तीकरणीयम्। व्याख्यातव्यम् (हविः) ग्राह्यं कर्म (इदम्) (जुहोमि) आददे। गृह्णामि ॥
इस भाष्य को एडिट करें