Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 19
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    यं ब्रा॑ह्म॒णे नि॑द॒धे यं च॑ वि॒क्षु या वि॒प्रुष॑ ओद॒नाना॑म॒जस्य॑। सर्वं॒ तद॑ग्ने सुकृ॒तस्य॑ लो॒के जा॑नी॒तान्नः॑ सं॒गम॑ने पथी॒नाम् ॥

    स्वर सहित पद पाठ

    यम् । ब्रा॒ह्म॒णे । नि॒ऽद॒धे । यम् । च॒ । वि॒क्षु । या: । वि॒ऽप्रुष॑: । ओ॒द॒नाना॑म् । अ॒जस्य॑ । सर्व॑म् । तत् । अ॒ग्ने॒ । सु॒ऽकृ॒तस्य॑ । लो॒के । जा॒नी॒तात् । न॒: । स॒म्ऽगम॑ने । प॒थी॒नाम् ॥५.१९॥


    स्वर रहित मन्त्र

    यं ब्राह्मणे निदधे यं च विक्षु या विप्रुष ओदनानामजस्य। सर्वं तदग्ने सुकृतस्य लोके जानीतान्नः संगमने पथीनाम् ॥

    स्वर रहित पद पाठ

    यम् । ब्राह्मणे । निऽदधे । यम् । च । विक्षु । या: । विऽप्रुष: । ओदनानाम् । अजस्य । सर्वम् । तत् । अग्ने । सुऽकृतस्य । लोके । जानीतात् । न: । सम्ऽगमने । पथीनाम् ॥५.१९॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 19

    टिप्पणीः - १९−(यम्) (ब्राह्मणे) ब्रह्मज्ञे (निदधे) स्थापितवान् सः परमेश्वरः (यम्) यम-ड। नियमम् (च) (विक्षु) प्रजासु (विप्रुषः) प्रुष स्नेहनसेवनपूरणेषु-क्विप्। विविधपूर्तीः (ओदनानाम्) उन्देर्नलोपश्च। उ० २।७६। उन्दी क्लेदने-युच्। ओदनो मेघः-निघ० १।१०। ओदनमुदकदानं मेघम्-निरु० ६।™३४। सेचनानाम् (अजस्य) जीवात्मनः (सर्वम्) (तत्) (अग्ने) हे विद्वन् (सुकृतस्य) पुण्यात्मनः (लोके) स्थाने (जानीतात्) जानीहि (नः) अस्माकम् (संगमने) संयोगे (पथीनान्) सर्वधातुभ्य इन्। उ० ४।११८। पथे गतौ-इन्। पथाम्। मार्गाणाम् ॥

    इस भाष्य को एडिट करें
    Top