Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 26
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - पञ्चपदानुष्टुबुष्णिग्गर्भोपरिष्टाद्बार्हताभुरिक्त्रिष्टुप् सूक्तम् - अज सूक्त

    पञ्च॑ रु॒क्मा ज्योति॑रस्मै भवन्ति॒ वर्म॒ वासां॑सि त॒न्वे भवन्ति। स्व॒र्गं लो॒कम॑श्नुते॒ यो॒जं पञ्चौ॑दनं॒ दक्षि॑णाज्योतिषं॒ ददा॑ति ॥

    स्वर सहित पद पाठ

    पञ्च॑ । रु॒क्मा । ज्योति॑: । अ॒स्मै॒ । भ॒व॒न्ति॒ । वर्म॑ । वासां॑सि । त॒न्वे᳡ । भ॒व॒न्ति॒ । स्व॒:ऽगम् । लो॒कम् । अ॒श्नु॒ते॒ । य: । अ॒जम् । पञ्च॑ओदनम् । दक्षि॑णाऽज्योतिषम् । ददा॑ति ॥५.२६॥


    स्वर रहित मन्त्र

    पञ्च रुक्मा ज्योतिरस्मै भवन्ति वर्म वासांसि तन्वे भवन्ति। स्वर्गं लोकमश्नुते योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥

    स्वर रहित पद पाठ

    पञ्च । रुक्मा । ज्योति: । अस्मै । भवन्ति । वर्म । वासांसि । तन्वे । भवन्ति । स्व:ऽगम् । लोकम् । अश्नुते । य: । अजम् । पञ्चओदनम् । दक्षिणाऽज्योतिषम् । ददाति ॥५.२६॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 26

    टिप्पणीः - २६−(पञ्च) म० २५। विस्तृतानि (रुक्मा) रोचकानि वस्तूनि (ज्योतिः) प्रकाशः (अस्मै) मनुष्याय (भवन्ति) (वर्म) कवचम् (वासांसि) वस्त्राणि (तन्वे) शरीराय (स्वर्गम्) स्वः सुखं गच्छति प्राप्नोति यत्र (लोकम्) दर्शनीयं स्थानम् (अश्नुते) प्राप्नोति। अन्यत् पूर्ववत् ॥

    इस भाष्य को एडिट करें
    Top