Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 8
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    पञ्चौ॑दनः पञ्च॒धा वि क्र॑मतामाक्रं॒स्यमा॑न॒स्त्रीणि॒ ज्योतीं॑षि। ई॑जा॒नानां॑ सु॒कृतां॒ प्रेहि॒ मध्यं॑ तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व ॥

    स्वर सहित पद पाठ

    पञ्च॑ऽओदन: । प॒ञ्च॒ऽधा । वि । क्र॒म॒ता॒म् । आ॒ऽक्रं॒स्यमा॑न: । त्रीणि॑ । ज्योतीं॑षि । ई॒जा॒नाना॑म् । सु॒ऽकृता॑म् । प्र । इ॒हि॒ । मध्य॑म । तृ॒तीये॑ । नाके॑ । अधि॑ । वि । श्र॒य॒स्व॒ ॥५.८॥


    स्वर रहित मन्त्र

    पञ्चौदनः पञ्चधा वि क्रमतामाक्रंस्यमानस्त्रीणि ज्योतींषि। ईजानानां सुकृतां प्रेहि मध्यं तृतीये नाके अधि वि श्रयस्व ॥

    स्वर रहित पद पाठ

    पञ्चऽओदन: । पञ्चऽधा । वि । क्रमताम् । आऽक्रंस्यमान: । त्रीणि । ज्योतींषि । ईजानानाम् । सुऽकृताम् । प्र । इहि । मध्यम । तृतीये । नाके । अधि । वि । श्रयस्व ॥५.८॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 8

    टिप्पणीः - ८−(पञ्चौदनः) अ० ४।१४।७। पृथिव्यादि पञ्चभिर्भूतैः ओदनः सेचनं यस्य स जीवात्मा (पञ्चधा) गन्धरसरूपस्पर्शशब्दैः पञ्चप्रकारेण (विक्रमताम्) विक्रमं पराक्रमं करोतु (आक्रंस्यमानः) लृटः सद्वा। पा० ३।३।१४। आङ्+क्रमु पादविक्षेपे-लृटः शानच्। प्राप्तुमिच्छन् (त्रीणि) शरीरेन्द्रियविषयरूपाणि (ज्योतींषि) द्योतमानानि। दर्शनसाधनानि (ईजानानाम्) लिटः कानज्वा। पा० ३।२।१०६। यजतेः कानच्। वचिस्वपियजादीनां किति। पा० ६।१।१५। इति सम्प्रसारणम्। लिट्त्वाद्द्विर्वचने दीर्घः। इष्टवताम्। देवपूजासंगतिकरणदानानि कुर्वताम् (सुकृताम्) सुकर्मिणाम् (प्र) प्रकर्षेण (इहि) प्राप्नुहि (मध्यम्) अन्तर्देशम् (तृतीये) जीवप्रकृतिभ्यां भिन्ने (नाके) सुखस्वरूपे परमात्मनि (अधि) अधिकृत्य (वि) विस्तारेण (श्रयस्व) आश्रितो भव ॥

    इस भाष्य को एडिट करें
    Top