अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 23
नास्यास्थी॑नि भिन्द्या॒न्न म॒ज्ज्ञो निर्ध॑येत्। सर्व॑मेनं समा॒दाये॒दमि॑दं॒ प्र वे॑शयेत् ॥
स्वर सहित पद पाठन । अ॒स्य॒ । अस्थी॑नि । भि॒न्द्या॒त् । न । म॒ज्ज्ञ: । नि: । ध॒ये॒त् । सर्व॑म् । ए॒न॒म् । स॒म्ऽआ॒दाय॑ । इ॒दम्ऽइ॑दम् । प्र । वे॒श॒ये॒त् ॥५.२३॥
स्वर रहित मन्त्र
नास्यास्थीनि भिन्द्यान्न मज्ज्ञो निर्धयेत्। सर्वमेनं समादायेदमिदं प्र वेशयेत् ॥
स्वर रहित पद पाठन । अस्य । अस्थीनि । भिन्द्यात् । न । मज्ज्ञ: । नि: । धयेत् । सर्वम् । एनम् । सम्ऽआदाय । इदम्ऽइदम् । प्र । वेशयेत् ॥५.२३॥
अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३−(न) निषेधे (अस्य) पुरुषस्य (अस्थीनि) असिसञ्जिभ्यां क्थिन्। उ० ३।१५४। असु क्षेपे−क्थिन्। शरीरस्थधातुविशेषान् (भिन्द्यात्) विदारयेत् (मज्ज्ञः) श्वन्नुक्षन्पूषन्प्लीहन्०। उ० १।१५९। टुमस्जो शुद्धौ-कनिन्, निपातनात् सिद्धिः। अस्थिसारान् (निर्धयेत्) धेट् पाने। नितरां पिबेत् (सर्वम्) सर्वथा (एनम्) परमेश्वरम् (समादाय) सम्यग् गृहीत्वा (इदमिदम्) दृश्यमानं प्रत्येकं वस्तु (प्रवेशयेत्) प्रविशेत् ॥
इस भाष्य को एडिट करें