Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 11
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    ए॒तद्वो॒ ज्योतिः॑ पितरस्तृ॒तीयं॒ पञ्चौ॑दनं ब्र॒ह्मणे॒ऽजं द॑दाति। अ॒जस्तमां॒स्यप॑ हन्ति दू॒रम॒स्मिंल्लो॒के श्र॒द्दधा॑नेन द॒त्तः ॥

    स्वर सहित पद पाठ

    ए॒तत् । व॒: । ज्योति॑: । पि॒त॒र॒: । तृ॒तीय॑म् । पञ्च॑ऽओदनम् । ब्र॒ह्मणे॑ । अ॒जम् । द॒दा॒ति॒ । अ॒ज: । तमां॑स‍ि । अ॑प । ह॒न्ति॒ । दू॒रम् । अ॒स्मिन् । लो॒के । श्र॒त्ऽदधा॑नेन । द॒त्त: ॥५.११॥


    स्वर रहित मन्त्र

    एतद्वो ज्योतिः पितरस्तृतीयं पञ्चौदनं ब्रह्मणेऽजं ददाति। अजस्तमांस्यप हन्ति दूरमस्मिंल्लोके श्रद्दधानेन दत्तः ॥

    स्वर रहित पद पाठ

    एतत् । व: । ज्योति: । पितर: । तृतीयम् । पञ्चऽओदनम् । ब्रह्मणे । अजम् । ददाति । अज: । तमांस‍ि । अप । हन्ति । दूरम् । अस्मिन् । लोके । श्रत्ऽदधानेन । दत्त: ॥५.११॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 11

    टिप्पणीः - ११−(एतत्) सर्वत्र वर्तमानम् (वः) युष्मदर्थम् (ज्योतिः) प्रकाशस्वरूपं ब्रह्म (पितरः) हे पालका विद्वांसः (तृतीयम्) जीवप्रकृतिभ्यां भिन्नम् (पञ्चौदनम्) म० ८। पञ्चभिर्भूतैः सिक्तम् (ब्रह्मणे) वेदज्ञानाय (अजम्) म० १। जीवात्मानम् (ददाति) प्रयच्छति। अग्रे व्याख्यातम्-म० ७ ॥

    इस भाष्य को एडिट करें
    Top