Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 5/ मन्त्र 2
    सूक्त - भृगुः देवता - अजः पञ्चौदनः छन्दः - त्रिष्टुप् सूक्तम् - अज सूक्त

    इन्द्रा॑य भा॒गं परि॑ त्वा नयाम्य॒स्मिन्य॒ज्ञे यज॑मानाय सू॒रिम्। ये नो॑ द्वि॒षन्त्यनु॒ तान्र॑भ॒स्वाना॑गसो॒ यज॑मानस्य वी॒राः ॥

    स्वर सहित पद पाठ

    इन्द्रा॑य । भा॒गम् । परि॑ । त्वा॒ । न॒या॒मि॒ । अ॒स्मिन् । य॒ज्ञे । यज॑मानाय । सू॒रिम् । ये । न॒: । द्वि॒षन्ति॑ । अनु॑ । तान् । र॒भ॒स्व॒ । अना॑गस: । यज॑मानस्य । वी॒रा: ॥५.२॥


    स्वर रहित मन्त्र

    इन्द्राय भागं परि त्वा नयाम्यस्मिन्यज्ञे यजमानाय सूरिम्। ये नो द्विषन्त्यनु तान्रभस्वानागसो यजमानस्य वीराः ॥

    स्वर रहित पद पाठ

    इन्द्राय । भागम् । परि । त्वा । नयामि । अस्मिन् । यज्ञे । यजमानाय । सूरिम् । ये । न: । द्विषन्ति । अनु । तान् । रभस्व । अनागस: । यजमानस्य । वीरा: ॥५.२॥

    अथर्ववेद - काण्ड » 9; सूक्त » 5; मन्त्र » 2

    टिप्पणीः - २−(इन्द्राय) परमैश्वर्यप्राप्तये (भागम्) भज सेवायाम्-घञ्। सेवनीयम् (परि) प्रति। अनुलक्ष्य (त्वा) जीवात्मानम् (नयामि) गमयामि (अस्मिन्) (यज्ञे) संगतिकरणे (यजमानाय) संगतिकरणशीलाय (सूरिम्) अ० २।११।४। विद्वांसम् (ये) दोषाः (नः) अस्मान् (द्विषन्ति) दूषयन्ति (अनु) निरन्तरम् (तान्) (रभस्व) लभस्व। निगृहाण (अनागसः) अ० ७।६।३। अनपराधाः (यजमानस्य) श्रेष्ठव्यवहारिणः (वीराः) शूराः ॥

    इस भाष्य को एडिट करें
    Top