Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 16
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    यो माया॑तुं॒ यातु॑धाने॒त्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥

    स्वर सहित पद पाठ

    य: । मा॒ । अया॑तुम् । यातु॑ऽधान । इति॑ । आह॑ । य: । वा॒ । र॒क्षा: । शुचि॑: । अ॒स्मि॒ । इति॑ । आह॑ । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तो: । अ॒ध॒म: । प॒दी॒ष्ट॒ ॥४.१६॥


    स्वर रहित मन्त्र

    यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह। इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥

    स्वर रहित पद पाठ

    य: । मा । अयातुम् । यातुऽधान । इति । आह । य: । वा । रक्षा: । शुचि: । अस्मि । इति । आह । इन्द्र: । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तो: । अधम: । पदीष्ट ॥४.१६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 16

    पदार्थ -

    १. (यः) = जो (अयातुम्) = राक्षस न होते हुए (मा) = मुझे (यातुधान इति आह) = 'राक्षस' इस नाम से कहता है, (यः वा) - अथवा जो (रक्षा:) = राक्षसीवृत्तिवाला पुरुष (शुचिः अस्मि) = 'मैं पवित्र हूँ'(इति आह) = ऐसा कहता है, (इन्द्रः) = शत्रुविद्रावक प्रभु (तम्) = उसे (महता वधेन हन्तु) = महान् अस्त्र से नष्ट करे। २. ऐसा व्यक्ति (विश्वस्य जन्तो:) = सब प्राणियों से (अधमः पदीष्ट) = निकृष्ट होता हुआ गति करे, इसकी स्थिति सबसे नीचे हो।

    भावार्थ -

    औरों पर मिथ्या दोषारोपण करनेवाला और अपने को पवित्र माननेवाला व्यक्ति दण्डित हो तथा निकृष्ट स्थिति में रक्खा जाए।

    इस भाष्य को एडिट करें
    Top