अथर्ववेद - काण्ड 12/ सूक्त 1/ मन्त्र 62
सूक्त - अथर्वा
देवता - भूमिः
छन्दः - परानुष्टुप्त्रिष्टुप्
सूक्तम् - भूमि सूक्त
उ॑प॒स्थास्ते॑ अनमी॒वा अ॑य॒क्ष्मा अ॒स्मभ्यं॑ सन्तु पृथिवि॒ प्रसू॑ताः। दी॒र्घं न॒ आयुः॑ प्रति॒बुध्य॑माना व॒यं तुभ्यं॑ बलि॒हृतः॑ स्याम ॥
स्वर सहित पद पाठउ॒प॒ऽस्था: । ते॒ । अ॒न॒मी॒वा: । अ॒य॒क्ष्मा: । अ॒स्मभ्य॑म् । स॒न्तु॒ । पृ॒थि॒वि॒ । प्रऽसू॑ता: । दी॒र्घम् । न॒: । आयु॑: । प्र॒ति॒ऽबुध्य॑माना: । व॒यम् । तुभ्य॑म् । ब॒लि॒ऽहृत॑: । स्या॒म॒ ॥१.६२॥
स्वर रहित मन्त्र
उपस्थास्ते अनमीवा अयक्ष्मा अस्मभ्यं सन्तु पृथिवि प्रसूताः। दीर्घं न आयुः प्रतिबुध्यमाना वयं तुभ्यं बलिहृतः स्याम ॥
स्वर रहित पद पाठउपऽस्था: । ते । अनमीवा: । अयक्ष्मा: । अस्मभ्यम् । सन्तु । पृथिवि । प्रऽसूता: । दीर्घम् । न: । आयु: । प्रतिऽबुध्यमाना: । वयम् । तुभ्यम् । बलिऽहृत: । स्याम ॥१.६२॥
अथर्ववेद - काण्ड » 12; सूक्त » 1; मन्त्र » 62
Translation -
May the shelter the mother earth affords us on her bosom, be free from consumption and all other diseases. May we live our long life keeping ourselves wakeful and watching and paying her tribute of our service.