अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 22
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
नि॒न्दाश्च॒ वा अनि॑न्दाश्च॒ यच्च॒ हन्तेति॒ नेति॑ च। शरी॑रं श्र॒द्धा दक्षि॒णाश्र॑द्धा॒ चानु॒ प्रावि॑शन् ॥
स्वर सहित पद पाठनि॒न्दा: । च॒ । वै । अनि॑न्दा: । च॒ । यत् । च॒ । हन्त॑ । इति॑ । न । इति॑ । च॒ । शरी॑रम् । श्र॒ध्दा । दक्षि॑णा । अश्र॑ध्दा । च॒ । अनु॑ । प्र । अ॒वि॒श॒न् ॥१०.२२॥
स्वर रहित मन्त्र
निन्दाश्च वा अनिन्दाश्च यच्च हन्तेति नेति च। शरीरं श्रद्धा दक्षिणाश्रद्धा चानु प्राविशन् ॥
स्वर रहित पद पाठनिन्दा: । च । वै । अनिन्दा: । च । यत् । च । हन्त । इति । न । इति । च । शरीरम् । श्रध्दा । दक्षिणा । अश्रध्दा । च । अनु । प्र । अविशन् ॥१०.२२॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 22
भाषार्थ -
(च निन्दाः) और निन्दाएं, (वै) निश्चय से (च अनिन्दाः) और स्तुतियां, (च यत्) और जो (हन्त इति) "हां" यह, (च न इति) और "न" यह; (श्रद्धा, दक्षिणा अश्रद्धा च) और श्रद्धा, दक्षिणा, अश्रद्धा- (अनु) तदनन्तर (शरीरम्, प्राविशन्) शरीर में प्रविष्ट हुए।
टिप्पणी -
[हन्त = स्वीकृति अर्थात् हां। हन्त= ह + न् + त् = ह+न्+अ= ह+ अ + न् = हान् = हां]।