अथर्ववेद - काण्ड 11/ सूक्त 8/ मन्त्र 23
सूक्त - कौरुपथिः
देवता - अध्यात्मम्, मन्युः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
वि॒द्याश्च॒ वा अवि॑द्याश्च॒ यच्चा॒न्यदु॑पदे॒श्यम्। शरी॑रं॒ ब्रह्म॒ प्रावि॑श॒दृचः॒ सामाथो॒ यजुः॑ ॥
स्वर सहित पद पाठवि॒द्या: । च॒ । वै । अवि॑द्या: । च॒ । यत् । च॒ । अ॒न्यत् । उ॒प॒ऽदे॒श्य᳡म् । शरी॑रम् । ब्रह्म॑ । प्र । अ॒वि॒श॒त् । ऋच॑: । साम॑ । अथो॒ इति॑ । यजु॑: ॥१०.२३॥
स्वर रहित मन्त्र
विद्याश्च वा अविद्याश्च यच्चान्यदुपदेश्यम्। शरीरं ब्रह्म प्राविशदृचः सामाथो यजुः ॥
स्वर रहित पद पाठविद्या: । च । वै । अविद्या: । च । यत् । च । अन्यत् । उपऽदेश्यम् । शरीरम् । ब्रह्म । प्र । अविशत् । ऋच: । साम । अथो इति । यजु: ॥१०.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 8; मन्त्र » 23
भाषार्थ -
(च विद्याः) और ब्रह्मविद्या सम्बन्धी नानाविधज्ञान, (च अविद्याः) और नानाविध लौकिक ज्ञान, (च यत्) और जो (अन्यत् उपदेश्यम्) अन्य उपदेश योग्य वस्तु, (ब्रह्म) शब्दब्रह्म अर्थात् ओ३म् का ध्यान या ब्रह्मवेद = अथर्ववेद, (अथो) तथा (ऋचः, साम, यजुः) ऋग्वेद, सामवेद, यजुर्वेद (शरीरम् प्राविशम्) शरीर में प्रविष्ट हुए।