अथर्ववेद - काण्ड 9/ सूक्त 10/ मन्त्र 13
सूक्त - ब्रह्मा
देवता - गौः, विराट्, अध्यात्मम्
छन्दः - त्रिष्टुप्
सूक्तम् - आत्मा सूक्त
पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑। पृ॒च्छामि॒ विश्व॑स्य॒ भुव॑नस्य॒ नाभिं॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्योम ॥
स्वर सहित पद पाठपृ॒च्छामि॑ । त्वा॒ । पर॑म् । अन्त॑म् । पृ॒थि॒व्या: । पृ॒च्छामि॑ । वृष्ण॑: । अश्व॑स्य । रेत॑: । पृ॒च्छामि॑ । विश्व॑स्य । भुव॑नस्य । नाभि॑म् । पृ॒च्छामि॑ । वा॒च: । प॒र॒मम् । विऽओ॑म ॥१५.१३॥
स्वर रहित मन्त्र
पृच्छामि त्वा परमन्तं पृथिव्याः पृच्छामि वृष्णो अश्वस्य रेतः। पृच्छामि विश्वस्य भुवनस्य नाभिं पृच्छामि वाचः परमं व्योम ॥
स्वर रहित पद पाठपृच्छामि । त्वा । परम् । अन्तम् । पृथिव्या: । पृच्छामि । वृष्ण: । अश्वस्य । रेत: । पृच्छामि । विश्वस्य । भुवनस्य । नाभिम् । पृच्छामि । वाच: । परमम् । विऽओम ॥१५.१३॥
अथर्ववेद - काण्ड » 9; सूक्त » 10; मन्त्र » 13
भाषार्थ -
(त्वा) तुझ से (पृथिव्याः) पृथिवी के (परम् अन्तम्) परम अन्त को (पृच्छामि) मैं पूछता हूं, (पृच्छामि) मैं पूछता हूं (वृष्णः अश्वस्य) वर्षा करने वाले अश्व का रेतस् [वीर्य] कौन सा है ? (पृच्छामि) मैं पूछता हूं कि (विश्वस्य भुवनस्य) समग्र भूमि का (नाभिम्) केन्द्र कहां है ? (पृच्छामि) मैं पूछता हूं (वाचः) वाणी का (परमं व्योम) परम रक्षक कौन हैं ?