अथर्ववेद - काण्ड 13/ सूक्त 2/ मन्त्र 41
सूक्त - ब्रह्मा
देवता - रोहितः, आदित्यः, अध्यात्मम्
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म सूक्त
सर्वा॒ दिशः॒ सम॑चर॒द्रोहि॒तोऽधि॑पतिर्दि॒वः। दिवं॑ समु॒द्रमाद्भूमिं॒ सर्वं॑ भू॒तं वि र॑क्षति ॥
स्वर सहित पद पाठसर्वा॑:। दिश॑: । सम् । अ॒च॒र॒त् । रोहि॑त: । अधि॑ऽपति: । दि॒व: । दिव॑म् । स॒मु॒द्रम् । आत् । भूमि॑म् । सर्व॑म् । भू॒तम् । वि । र॒क्ष॒ति॒ ॥२.४१॥
स्वर रहित मन्त्र
सर्वा दिशः समचरद्रोहितोऽधिपतिर्दिवः। दिवं समुद्रमाद्भूमिं सर्वं भूतं वि रक्षति ॥
स्वर रहित पद पाठसर्वा:। दिश: । सम् । अचरत् । रोहित: । अधिऽपति: । दिव: । दिवम् । समुद्रम् । आत् । भूमिम् । सर्वम् । भूतम् । वि । रक्षति ॥२.४१॥
अथर्ववेद - काण्ड » 13; सूक्त » 2; मन्त्र » 41
विषय - परमात्मा और जीवात्मा के विषय का उपदेश।
पदार्थ -
(दिवः) प्रकाश के (अधिपतिः) अधिपति [बड़े स्वामी], (रोहितः) सर्वजनक [परमेश्वर] ने (सर्वाः) सब (दिशः) दिशाओं में (सम् अचरत्) संचार किया है। (दिवम्) सूर्य, (समुद्रम्) अन्तरिक्ष (आत्) और (भूमिम्) भूमि और (सर्वम्) सब (भूतम्) सत्तावाले [जगत्] की (वि) विविध प्रकार (रक्षति) रक्षा करता है ॥४१॥
भावार्थ - सर्वशक्तिमान् परमेश्वर सब में व्यापक होकर सबकी रक्षा करता है, सब मनुष्य उसकी उपासना करें ॥४१॥
टिप्पणी -
४१−(सर्वाः) (दिशः) पूर्वादिदिशाः (समचरत्) विचरितवान् (रोहितः) सर्वजनकः परमेश्वरः (अधिपतिः) अध्यक्षः (दिवः) प्रकाशस्य (दिवम्) सूर्यम् (समुद्रम्) अन्तरिक्षम् (आत्) अपि (भूमिम्) (सर्वम्) (भूतम्) जगत् (वि) विविधम् (रक्षति) पाति ॥